सामग्री पर जाएँ

विलग्नम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विलग्नम्, क्ली, (विशेषेण लग्नम् ।) मध्यः । यथा, -- “मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ॥” इति हेमचन्द्रः ॥ जन्मलग्नम् । यथा, -- “गोचरे वा विलग्ने वा ये ग्रहा रिष्टसूचकाः । पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः ॥ गोचरे स्वराश्यपेक्षया यदा कदापि । विलग्ने जन्मलग्ने । इति संस्कारतत्त्वम् ॥ मेषादिलग्न- मात्रम् । यथा, -- “शुभग्रहार्कवारे च मृदुक्षिप्रध्रुवेषु च । शुभराशिविलग्ने च शुभं शान्तिकपौष्टिकम् ॥” इति दीपिका ॥ संलग्ने, त्रि । यथा, -- “विलग्नं न स्त्रियां मन्ये त्रिषु स्याल्लग्नमात्रके ॥” इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=विलग्नम्&oldid=166894" इत्यस्माद् प्रतिप्राप्तम्