विलासी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलासी, [न्] पुं, (विलासोऽस्यास्तीति । विलास + इनिः ।) भोगी । व्यालः । (उभयार्थे प्रमाणं यथा, कुट्टनीमते । १८ । “तस्यां खगपतितनुरिव विलासिनां हृदय- शोकसंजननी ॥” “विले आसत इति विलासिनः सर्पाः पक्षे विल- सनशीला भोगिनः ।” इति तट्टीका ॥ * ॥) कृष्णः । अग्निः । चन्द्रः । इति मेदिनी ॥ स्मरः । हरः । इति शब्दरत्नावली ॥ (विलास- शीले, त्रि । यथा, रघुः । ९ । ४३ । “परभृताविरुतैश्च विलासिनः स्मरवलैरवलैकरसाः कृताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=विलासी&oldid=166927" इत्यस्माद् प्रतिप्राप्तम्