सामग्री पर जाएँ

विवाहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विवाहः, पुं, (विशिष्टं वहनम् । वि + वह + घञ् ।) उद्वाहः । दारपरिग्रहः । तत्पर्य्यायः । उपयमः २ परिणयः ३ उद्बाहः ४ उपयामः ५ पाणिपीडनम् ६ । इत्यमरः ॥ दारकर्म्म ७ करग्रहः ८ । इति शब्दरत्नावली ॥ पाणि- ग्रहणम् ९ निवेशः १० पाणिकरणम् ११ । इति जटाधरः ॥ स चाष्टविधः । यथा, -- “ब्राह्म्यो विवाह आहूय दीयते शक्त्यलङ्कृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ यज्ञस्थायर्त्विजे दैवमादायार्षन्तु गोयुगम् । चतुर्द्दशप्रथमजः पुनात्युत्तरजश्च षट् ॥ इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने । सकायः पावयेत्तज्जः षड्वंश्यांश्च सहात्मना ॥ आसुरो द्रषिणादानात् गान्धर्व्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥” इति याज्ञवल्क्यः ॥ * ॥ नापितेन मुक्तायां गवि जामाता पठति । प्रजा- पतिरृषिस्तृष्टुप् छन्दो गौर्देवता गवानुमन्त्रणे विनियोगः । ओ~ माता रुद्राणां दुहिता वसूनां स्वसादित्यानां अमृतस्य नाभिः प्रनुवोचं चिकि- तुषे जनाय मा गा मना गा मदितीं वधिष्ट । अनेन गां विसर्ज्जयेत् । ततो मङ्गलं कुर्य्यात् । ततो भर्त्तुर्व्वामपार्श्वे बधूमुपवेशयेत् । इति सम्प्रदानं समाप्तम् ॥ * ॥ इति भवदेवभट्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विवाहः [vivāhḥ], Marriage; (Hindu lawgivers enumerate eight forms of marriage; ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथा$$सुरः । गांधर्वो राक्षसश्चैव पैशाचश्चाष्टमो$धमः ॥ Ms.3.21; see Y.1. 58-61 also; for explanation of these forms see s. v.).-Comp. -चतुष्टयम् marrying four wives. -दीक्षा the marriage ceremony or rite; विवाहदीक्षां निरवर्तयद् गुरुः R.3.33. -नेपथ्यम्, -वेषः a marriage-dress.

"https://sa.wiktionary.org/w/index.php?title=विवाहः&oldid=269463" इत्यस्माद् प्रतिप्राप्तम्