विवेकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विवेकः, पुं, परस्परव्यावृत्त्या वस्तुस्वरूपनिश्चयः । प्रकृतिपुरुषयोर्विभागेन ज्ञानं इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । पृथगात्मता २ । इत्य- मरः ॥ विवेचनम् ३ । इति शब्दरत्नावली ॥ पृथग्भावः ४ । इति धरणिः ॥ “विवेको वस्तुनो भेदः प्रकृतेः पुरुषस्य वा ॥” इति जटाधरः ॥ यथा । नित्यानित्यवस्तुविवेकस्तावत् ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् । इति वेदान्तसारः ॥ (यथा, मनौ । १ । २६ । “कर्म्मणाञ्च विवेकार्थं धर्म्माधर्म्मौ व्यवेचयत् ॥”) जलद्रोणी । विचारः । इति मेदिनी ॥ (यथा, मनौ । १ । ११२ । “तस्य कर्म्मविवेकार्थं शेषाणामनुपूर्ब्बशः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विवेकः [vivēkḥ], 1 Discrimination, judgment, discernment, discretion; काश्यपि यातस्तवापि च विवेकः Bv.1.68,66; ज्ञातो$यं जलधर तावको विवेकः 96; विवेकभ्रष्टानां भवति विनिपातः शतमुखः Bh.2.1.
Consideration, discussion, investigation; यच्छृङ्गारविवेकतत्त्वमपि यत् काव्येषु लीलायितम् Gīt.12; so द्वैत˚, धर्म˚.
Distinction, difference, discriminating (between two things); नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् Bv.1.13; एकतामिव गतस्य विवेकः कस्यचिन्न महतो$प्युपलेभे Ki.9.12; Bk.17.6.
(In Vedānta phil.) The power of distinguishing between the visible world and the invisible spirit, or of separating reality from mere semblance or illusion.
True knowledge.
A receptacle for water, basin, reservoir. -Comp. -ख्यातिः right knowledge. -ज्ञ a. judicious, discriminative; ते धन्यास्ते विवेकज्ञास्ते शस्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥ Pt.1.262,387. -ज्ञानम् the faculty of discrimination. -दृश्वन् m. a discerning man; विवेकदृश्वत्व- मगात् सुराणाम् Bk.2.46. -पदवी reflection, consideration.-परिपन्थिन् obstructing right judgment. -भाज् a. wise.-मन्थरता feebleness of judgment. -विरहः ignorance, folly. -विश्रान्त a. foolish, unwise.
