विशङ्कटः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विशङ्कटः, त्रि, (वि + “वेः शालच्छङ्कटचौ ।” ५ । २ । २८ । इति शङ्कटच् ।) विशालः । इत्यमरः ॥ (यथा, भट्टिः । २ । ५० । “विशङ्कटो वक्षसि बाणपाणिः सम्पन्नतालद्वयसः पुरस्तात् ॥” भयानकः । यथा, कथासरित्सागरे । १०८ । १०७ । “मांसासृङ्मत्तवेतालतालवाद्यविशङ्कटः । अभून्नृत्यत्कबन्धोऽसौ भूतप्रीत्यै रणोत्सवः ॥”)
