सामग्री पर जाएँ

विशसनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विशसनः, पुं, (विशसति हिनस्तीति । वि + शस हिंसायाम् + ल्युः ।) खड्गः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते । १२ । १६६ । ८३ -- ८४ । “असेरष्टौ हि नामानि रहस्यानि निबोध मे । पाण्डवेय सदा यानि कीर्त्तयन् लभते जयम् ॥ असिर्व्विशसनः खड्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्म्मपालस्तथैव च ॥”)

"https://sa.wiktionary.org/w/index.php?title=विशसनः&oldid=167069" इत्यस्माद् प्रतिप्राप्तम्