सामग्री पर जाएँ

विशिष्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विशिष्टः, त्रि, (वि + शिष् + क्तः । यद्बा, शास + क्तः ।) युक्तः । यथा । हस्तानक्षत्रगङ्गा- रूपगुणद्वयविशिष्टदशमीविधेर्यस्मिन् अहनि तल्लाभस्तत्र स्नानम् । इति तिथ्यादितत्त्वे स्मार्त्त- भट्टाचार्य्यलिखनम् ॥ विशेषेण शिष्टश्च ॥ (यथा, हितोपदेशे । “समैश्च समतां याति विशिष्टैश्च विशिष्टताम् ॥”)

विशिष्टः, पुं, विष्णुः । यथा । विशिष्टः शिष्टकृत् शुचिः । इति तस्य सहस्रनामस्तोत्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=विशिष्टः&oldid=167115" इत्यस्माद् प्रतिप्राप्तम्