विश्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विश्वः, पुं, गणदेवताविशेषः । इत्यमरः ॥ “वसुसत्यौ क्रतुदक्षौ कालकामौ धृत्रिः कुरुः । पुरूरवा माद्रवाश्च विश्वेदेवाः प्रकीर्त्तिताः ॥” इति भरतः ॥ * ॥ “इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः । नैमित्तिके कालकामौ काम्ये च धूरिलोचनौ । पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ ॥” इति स्मृतिः ॥ ते तु धर्म्मात् दक्षकन्यायां विश्वायां जाताः । इति मात्म्ये ५ अध्यायः ॥ * ॥ नागरः । इति विश्वः ॥ स्थूलशरीरव्यष्ट्युपहितचैतन्यम् । इति वेदान्तसारः ॥ * ॥ परिमाणविशेषः । यथा, -- “गुञ्जाषण्णवतिस्तोलो दशघ्नं तद्भवेत् पलम् । विश्वा विंशपलं प्रोक्तं दिव्यं कोटिगुणं हि तत् । सैव कोटिगुणा ब्राह्मी विश्वाः शस्यादि- सम्भवाः ॥” इति ज्योतिष्मती ॥
विश्वः, त्रि, (विश + क्वन् ।) सकलम् । इत्यमरः ॥ (यथा, महाभारते । ३ । २१८ । १६ । “यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति । तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥” बहु । इति निघण्टुः । ३ । १ ॥)
