सामग्री पर जाएँ

विश्वकर्म्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वकर्म्मा, [न्] पुं, (विश्वेषु कर्म्म यस्य ।) सूर्य्यः । देवशिल्पी । इत्यमरः । तत्पर्य्यायः । त्वष्टा २ विश्वकृत् ३ देववद्धेकिः ४ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । २१२ । १० । “दृष्ट्वा च विश्वकर्म्माणं व्यादिदेश पितामहः ॥”) मुनिभेदः । इति मेदिनी । ने, २४७ ॥ स प्रभासस्य वसोः पुत्त्रः । यथा, -- “विश्वकर्म्मा प्रभासस्य पुत्त्रः शिल्पप्रजापतिः ॥ प्रासादभवनोद्यानप्रतिमाभूषणादिषु । तडागारामकूपेषु स्मृतः सोऽमरवर्द्धकिः ॥” इति मात्स्ये ५ अध्यायः ॥ * ॥ अन्यच्च । “प्रत्यूषस्य विदुः पुत्त्रमृषिं नाम्ना तु देवलम् । विश्वकर्म्मा प्रभासस्य विख्यातो देववर्द्धकिः ॥” इति गारुडे ६ अध्यायः ॥ * ॥ अपि च । “बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत् कृत्स्नमसक्ता विचरत्युत ॥ प्रभासस्य तु भार्य्या सा वसूनामष्टमस्य तु । विश्वकर्म्मा महाभागस्तस्यां जज्ञे महामतिः ॥ कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्द्धकिः । भूषणानाञ्च सर्व्वेषां कर्त्ता शिल्पवतां वरः ॥ यः सर्व्वेषां विमानानि देवतानां चकार ह । मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥” इति विष्णुपुराणे १ अंशे १५ अध्यायः ॥ अन्यच्च । “द्वौ प्रोक्तौ विश्वकर्म्माणो मयस्त्वष्टा च योग- वित् ॥ द्वौ धाता च विधाता च पौराणौ जगतः- पती ॥” इति वह्निपुराणे गणभेदो नामाध्यायः ॥ (चेतनाधातुः । तद्विवृतिर्यथा । “तत्र पूर्व्वं चेतनाधातुः सत्त्वकरणो गुणग्रहणाय प्रवर्त्तते । स हि हेतुः कारणं निमित्तमक्षरं कर्त्ता मन्ता वेदिता बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्म्मा विश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यो गुणी ग्रहणं प्राधान्यमव्यक्तं जीवोज्ञः प्रतुलश्चेतनावान् विभु- र्भूतात्मा चेन्द्रियात्मा चान्तरात्माचेति ।” इति चरके शारीरस्थाने चतुर्थेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=विश्वकर्म्मा&oldid=167190" इत्यस्माद् प्रतिप्राप्तम्