सामग्री पर जाएँ

विश्वक्शेन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वक्शेनः, पुं, विष्णुः । इत्यमरटीकायां भरतः ॥ त्रयोदशमनुः । यथा, -- “मनुर्भूतेः सुतस्तद्बत् भौत्यो नाम भविष्यति । ततस्तु मेरुसावर्णब्रह्मसूनुर्मनुः स्मृतः ॥ ऋतुश्च ऋतुधामा च विश्वक्शेनो मनुस्तया ॥ अतीतानागताश्चैते मनवः परिकीर्त्तिताः ॥” इति मात्स्ये ९ अध्यायः ॥ * ॥ विष्णोर्निर्म्माल्यधारिदेवता । यथा, -- “निर्म्माल्यधारी विष्णोस्तु विश्वक्शेनश्चतुर्भुजः । शङ्खचक्रगदापाणिर्दीर्घश्मश्रुर्जटाधरः ॥ रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः । प-तृतीयस्वरान्तेन संयुतो बिन्दुनेन्दुना ॥ कीर्त्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् । विसर्ज्जनं तथा विष्णोरैशान्यां परिकल्पयेत् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ (क्वचित् विश्वक्सेन इति पाठोऽपि दृश्यते ॥)

"https://sa.wiktionary.org/w/index.php?title=विश्वक्शेन&oldid=167196" इत्यस्माद् प्रतिप्राप्तम्