सामग्री पर जाएँ

विश्वचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वचक्रम्, क्ली, (विश्वतः सर्व्वत्र चक्रं यस्य ।) महादानविशेषः । यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि महादानमनुत्तमम् । विश्वचक्रमिति ख्यातं सर्व्वपातकनाशनम् ॥ तपनीयस्य शुद्धस्य विश्वचक्रन्तु कारयेत् । श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्यमम् ॥ तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् । अन्यद्विं शत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत् ॥ षोडशारं ततश्चक्रं भूमिनेम्यष्टकावृतम् ॥ नाभिपद्मे स्थितं विष्णुं योगारूढं चतुर्भुजम् ॥ शङ्खचक्रस्य पार्श्वे तु देव्यष्टकसमावृतम् । द्वितीयावरणे तद्वत् पूर्ब्बतो जलशायिनम् ॥ अत्रिर्भृगुर्बशिष्ठश्च ब्रह्मा काश्यप एव च । मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च रामश्च बुद्धः कल्की च ते दश ॥ तृतीयावरणे गौरी मातृभिर्बहुभिर्युता । चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च ॥ पञ्चमे पञ्चभूतानि रुद्राश्चैकादशैव तु । लोकपालाष्टकं षष्ठे दिङ्मातङ्गास्तथैव च ॥ सप्तमेऽस्त्राणि सर्व्वाणि मङ्गल्यानि च कारयेत् । अन्तरान्तरतो देवान् विन्यसेदष्टमे पुनः ॥ तुलापुरुषवत् शेषं समन्तात् परिकल्पयेत् । ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम् ॥ विश्वचक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि । तथाष्टादश धान्यानि रसाश्च लवणादयः ॥ पूर्णकुम्भाष्टकञ्चैव वस्त्राणि विविधानि च । माल्येक्षुफलरत्नानि वितानं चापि कल्पयेत् ॥ ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो गृही । होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः ॥ इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् । नमो विश्वमयायेति विश्वचक्रात्मने नमः ॥ परमानन्दरूपि त्वं पाहि नः पापकर्द्दमात् । तेजोमयमिदं यस्मात् सदा पश्यन्ति योगिनः ॥ हृदि तत् त्रिगुणातीतं विश्वचक्रं नमाम्यहम् । वासुदेवे स्थितञ्चक्रं चक्रमध्ये च माधवम् ॥ अन्योन्याधाररूपेण प्रणमामि स्थिताविह । विश्वचक्रमिदं यस्मात् सर्व्वपापहरं परम् । आयुधञ्चाधिवासञ्च भवादुद्धर मामितः ॥ इत्यामन्त्र्य च यो दद्यात् विश्वचक्रममत्सरः । विमुक्तः सर्व्वपापेभ्यो विष्णुलोके महीयते ॥ वैकुण्ठलोकमासाद्य चतुर्ब्बाहुः सनातनः । सेव्यतेऽप्सरसां संघैस्तिष्ठेत् कल्पशतत्रयम् ॥ प्रणमेद्वाथ यः कुर्य्यात् विश्वचक्रन्दिने दिने । तस्यायुर्व्वर्द्धते नित्यं लक्ष्मीश्च विपुला भवेत् ॥ इति सकलजगत्सुराधिवासं वितरति यस्तपनीयषोडशारम् । हरिभवनमुपागतः स सिद्धै- श्चिरमधिगम्य नमस्यते शिरोभिः ॥ असुदर्शनतां प्रयाति शत्रो- र्मदनसुदर्शनताञ्च कामिनीनाम् । ससुदर्शनकेशवानुरूपं कनकसुदर्शनदानदग्धपापः ॥ कृतगुरुदुरितारिषोडशारं प्रवितरणप्रवराकृतिं मुरारेः । अभिभवति भवोद्भवानि भित्त्वा भवमभितो भवने भवानि भूयः ॥” इति मात्स्ये महादानानुकीर्त्तने विश्वचक्रप्रादा- निको नाम २५९ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वचक्र¦ न॰ द्वादशे महादानभेदे मत्स्यपु॰ तद्विधिर्यथ
“अथातः संप्रवक्ष्यासि महादानमनुत्तमम्। विश्वचक्र-[Page4925-b+ 38] मितिख्यातं सर्वपातकनाशनम्। तपनीयस्य शुद्धस्य विश्व-चक्रन्तु कारयेत्। श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्य-मम्। तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम्। अ न्य-द्विंशत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत्। षोडाशारं तत-श्चक्रं भूमिनेम्यष्टकावृतम्। नाभिपद्मे स्थितं विष्णुभोगारूढं चतुर्भुजम्। शङ्खवक्रस्य पार्श्व तु देव्यष्टक-समावृतम्। द्वितोयावरणे तद्वत् पूर्वतो जलशायिनम्। अत्रिर्भृगुर्वशिष्ठश्च ब्रह्मा काश्यप एव च। मत्स्यः कूर्मोवराहश्च नरसिंहाऽथ वामनः। रामो रामश्च रामश्चबुद्धः कल्की च ते दश। तृतीयावरणे गौरी मा{??}भि-र्बहुभिर्युता। चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च। पञ्चमे पञ्च भूतानि रुद्राश्चैकादशैव तु। लोकपाला-ष्टकं षष्ठे दिङ्मातङ्गास्तथैव च। सप्तमेऽस्त्राणि सर्वाणिमङ्गल्यानि च कारयेत्। अन्तरान्तरतो देवान् विन्य-सेदष्टमे पुनः। तुलापुरुषवत् शेषं समन्तात् परिकल्प-येत्। ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम्। विश्व-चक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि। तथाष्टा-दश धान्यानि रसाश्च लवणादयः। पूर्णकुम्भाष्टकञ्चैववस्त्राणि विविधानि च। माल्येक्षु फलरत्नानि वितानचापि कल्पयेत्। ततो मङ्गलशब्देन म्नातः शुक्लाम्बरीगृही। होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः। इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम्। नमो विश्व-मयायेति विश्वचक्रात्मने नमः। वरम नन्दरूपी त्वंपाहि नः पापकर्दमात्। तेजोमयमिदं यस्मात् सदापश्यन्ति योगिनः। हृदि तत्त्रिगुणातीतं विश्वचक्रनमाम्यहम्। वासुदेवस्थितञ्चक्रं चक्रमध्ये च माथ-वम्। अन्योन्याधाररूपेण प्रणमामि स्थिताविह। विश्वचक्रमिदं यस्मात् सर्वपापहरं परम्। आयुध-ञ्चाधिवासञ्च भवादुद्धर मामितः”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वचक्र/ विश्व--चक्र n. " world-wheel " , a wheel made of gold representing the universe (or the gift of such a wheel offered to Brahmans) Hcat.

"https://sa.wiktionary.org/w/index.php?title=विश्वचक्र&oldid=271867" इत्यस्माद् प्रतिप्राप्तम्