विश्वदेवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विश्वदेवः, पुं, (विश्वे दीव्यतीति । दिव + अच् ।) गणदेवताविशेषः । इत्यमरटीका ॥ “विश्वदेवौ क्रतुदक्षौ सर्व्वास्विष्टिषु विश्रुतौ । नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ॥ नवान्नालम्भने देवौ कामकालौ सदैव हि । अपि कन्यागते सूर्य्ये श्राद्धे च ध्वनिरोचकौ । पुरूरवाश्चाद्रवाश्च विश्वदेवौ च पर्व्वणि ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (विश्वस्य देवतास्वरूपे, त्रि । यथा, हरिवंशे । १८९ । १६ । “श्रुतं मे विश्वदेवानां यद्रहस्यं महर्षिणाम् । तदिदं सर्व्वदेवानां तत्त्वतस्तत्त्ववादिनाम् ॥”)
