विश्वभेषजम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विश्वभेषजम्, क्ली, (विश्वेषां भेषजम् ।) शुण्ठी । इत्यमरः ॥ (यथा, सुश्रुते । १ । ४४ । “विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितैः ॥” तथास्य गुणाः । “सस्नेहं दीपनं वृष्यमुष्णं वातकफापहम् । विपाके मधुरं हृद्यं रोचनं विश्वभेषजम् ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)
