विश्वरूपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विश्वरूपः, पुं, (विश्वमेव रूपं यस्य ।) विष्णुः । इति हेमचन्द्रः ॥ (महादेवः । यथा, महा- भारते । ७ । २०० । १२४ । “विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः स्मृतः ॥” त्वष्टृपुत्त्रः । यथा, विष्णुपुराणे । १ । १५ । १२२ । “त्वष्टुश्चाप्यात्मजः पुत्त्री विश्वरूपो महा- यशाः ॥” सर्व्वरूपे, त्रि । यथा, भागवते । ६ । ४ । २८ । “स सर्व्वनाना स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥”)
