सामग्री पर जाएँ

विश्वावसुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वावसुः, पुं, (विश्वं वसु यस्य । “विश्वस्य वसु- राटोः ।” ६ । ३ । १२८ । इति पूर्ब्बपदान्तस्य दीर्घः ।) गन्धर्व्वभेदः । इति मेदिनी ॥ यथा, -- “अभ्राजोऽङ्घारिवग्भारी सूर्य्यवर्च्चास्तथा कृधुः । हस्तः सुहस्तः स्वाञ्चैव मूर्द्ध्वन्वांश्च महामनाः । विश्वावसुः कृशानुश्च गन्धर्व्वैकादशो गणः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (विष्णुः । यथा, महाभारते । ६ । ६२ । ४५ । “विश्वावसुर्विश्वमूर्त्तिर्विश्वेशो विश्वक्सेनो विश्वकर्म्मा वशो च ॥” * ॥ वत्सरविशेषः । यथा, बृहत्संहितायाम् । ८ । ४१ । “क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥” तत्फलं यथा, चिन्तामणिधृतवचनम् । “सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता । विश्वावसौ वरारोहे कार्पासस्य महार्घता ॥”) निशि स्त्री । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वावसुः [viśvāvasuḥ], N. of a Gandharva; Bhāg.7.4.14.

"https://sa.wiktionary.org/w/index.php?title=विश्वावसुः&oldid=273044" इत्यस्माद् प्रतिप्राप्तम्