विश्वासः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विश्वासः, पुं, (वि + श्वस + घञ् ।) प्रत्ययः । तत्- पर्य्यायः । विश्रम्भः २ । इत्यमरः ॥ आश्वासः ३ आश्रमः ४ । इति शब्दरत्नावली ॥ * ॥ “लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः । तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥ सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्- झितः । तन्मित्रं यस्य विश्वासः पुरुषः स जितेन्द्रियः ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥ “यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती । एतावानिति कृष्णस्य प्रभावः परिमीयते ॥” इति तत्रैव २३४ अध्यायः ॥ “न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥” इति च गारुडे ११४ अध्यायः ॥ * ॥ “नखिनाञ्च नदीनाञ्च शृङ्गिणा शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥ न विश्वसेदविश्वस्तं मित्रञ्चापि न विश्वसेत् । कदाचित् कुपितं मित्रं गुप्तदोषं प्रकाशयेत् ॥” इति चाणक्यम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विश्वासः [viśvāsḥ], 1 Trust, confidence, faith, reliance; दुर्जनः प्रियवादीति नैतद्विश्वासकारणम्; विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः Ś.1.14; R.1.51; H.4.13; न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे Pt.
A secret, confidential communication. -Comp. -कार्यम् a confidential matter of business. -घातः, -भङ्गः breach of faith, treachery, perfidy. -घातकः, -घातिन् m. a treacherous fellow, traitor. -पात्रम्, -भूमिः, -स्थानम् an object of confidence, a reliable or trusty person, a confidant.
