सामग्री पर जाएँ

विश्वेश्वरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विश्वेश्वरः, पुं, (विश्वस्य ईश्वरः ।) काशीस्थ- महादेवः । यथा, -- “सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रां व्यधात् स च । मनिकर्ण्यान्तु यः स्नातो यो विश्वशं निरैक्षत ॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका ॥” इति काशीखण्डम् ॥ (यथाच तन्त्रे । “मुखेन वाद्यं सलिलेन पाद्यं मूर्त्तिर्मृदा विल्वदलेन पूजा । फलं पुनस्तस्य भवेदनन्तं निःस्वस्य विश्वेश्वर एव देवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=विश्वेश्वरः&oldid=167290" इत्यस्माद् प्रतिप्राप्तम्