सामग्री पर जाएँ

विषघ्नः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विषघ्नः, पुं, (विषं हन्तीति । हन + टक् ।) शिरीष- वृक्षः । इति शब्दचन्द्रिका ॥ यवासः । विभी- तकः । इति राजनिर्घण्टः ॥ चम्पकवृक्षः । इति जटाधरः ॥ विषनाशके, त्रि ॥ (यथा, मनुः । ७ । २१८ । “विषघ्नैरगदैश्चास्य सर्व्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥”) विषघ्नौषधानि यथा, -- मनुरुवाच । “रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा । अगदादि समाचक्ष्व तानि धर्म्मभृतांवर ॥ मत्स्य उवाच । विल्वाढकायवक्षारं पाटला वाह्लिकोषणा । श्रीपर्णी शल्लकीयुक्ता निष्काथ्य प्रोक्षणं परम् । सविषं प्रोक्षितं तेन सद्यो भवति निर्व्विषम् ॥ १ ॥ यवसेन्धनपानीयवस्त्रशय्यासनोदनम् । कवचाभरणं छत्रं बालव्यजनवेश्मनी ॥ शेलुः पाटल्यतिविषा गोपी भार्गी पुनर्नवा । समङ्गावृक्षमूलत्वक्कपित्थवृषशोणितम् । सहदन्तशठन्तद्वत् प्रोक्षणं विषनाशनम् ॥ २ ॥ लाक्षा प्रियङ्गु मञ्जिष्ठा सममेला हरेणुका । सयष्ट्या मधुना युक्ता वभ्रुपित्तेन कल्किता ॥ निखनेद्गोविषाणस्थं सप्तरात्रं महीतले । ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् । संस्पृष्टं सविषन्तेन सद्यो भवति निर्व्विषम् ॥ ३ ॥ मनो जलं शमीपुष्पं दुर्द्धर्षा चैव कर्षकाः । कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥ शुनो गोः कपिलायाश्च सौम्याख्येयापरोऽगदः । विषजित् परमं कार्य्यं मणिरत्नञ्च पूर्ब्बवत् । मूषिका जतुका वापि हस्ते बद्धा विषापहा ॥ ४ ॥ हरेणु मांसी मञ्जिष्ठा रजनी मधुका मधु । अक्षत्वक् सुरसं लाक्षाम्बुपित्तं पूर्ब्बवद्भुवि ॥ वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः । श्रुत्वा दृष्ट्वाथ चाघ्राय सद्यो भवति निर्व्विषः ॥ ५ इत्येवमेतैः सकलैरुपेतै- र्द्रव्यैश्च सर्व्वैः स्वपुरं सुरक्षितम् । राजा वसेत्तत्र गृहञ्च शुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम् ॥” इति मात्स्ये १९२ अध्यायः ॥ (तण्डुलीयः । तत्पर्य्यायो यथा । अथ च वराइ । अल्पमरुसा इति च । “तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः । भण्डीरस्तण्डुलीबोजो विषघ्नश्चाल्पमारिषः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=विषघ्नः&oldid=167303" इत्यस्माद् प्रतिप्राप्तम्