सामग्री पर जाएँ

विषमम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विषमम्, त्रि, असमानम् । यथा, मनुः । “भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह । न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥” इति दायतत्त्वम् ॥ (सङ्कटः । यथा, गीतायाम् । २ । २ । “कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥” अनतिक्रमणीयः । यथा, साहित्यदर्पणे । १० । “का विषमा दैवगतिः किं दुर्ग्राह्यं जनः खलो लोके ॥”)

विषमम्, क्ली, पद्यस्य त्रिविधवृत्तान्तर्गतवृत्तविशेषः ॥ यथा, -- “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” इति छन्दोमञ्जर्य्यां प्रथमस्तवकः ॥ वर्गमूलोक्तोर्द्ध्वरेखा । यथा, -- “त्यक्त्वान्त्याद्बिषमात् कृतिं द्विगुणयेन्मूलं समे तद्धृते त्यक्त्वा लब्धकृतिन्तदाद्यविषमाल्लब्धं द्विनिघ्नं न्यसेत् । पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गं फलं पङ्क्त्यान्तद्द्विगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं स्यात् पदम् ॥” इति लीलावती ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । “यद्वारब्धस्य वैकल्यं अनर्थस्य च सम्भवः । विरूपयोः सङ्घटना या च तद्विषमं मतम् ॥” उदाहरणम् । “क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”)

"https://sa.wiktionary.org/w/index.php?title=विषमम्&oldid=167343" इत्यस्माद् प्रतिप्राप्तम्