सामग्री पर जाएँ

विषयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विषयः, पुं, (“विषिण्वन्ति विषयिणं स्वेन रूपेण निरूपणीयं कुर्व्वन्ति ।” इति सांख्यतत्त्वकौमुदी । वि + षि + अच् ।) चक्षुरादिग्राह्यः । स तु शब्दस्पर्शरूपरसगन्धरूपः । तत्पर्य्यायः । गोचरः २ इन्द्रियार्थः ३ ॥ देशः । (यथा, रघुः । ११ । १८ । “यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामभवदन्तकस्य तत् ॥”) आशयः । इत्यमरः ॥ न्यायमते क्षित्यप्तेजो- वायूनां विषया यथा, -- “तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता । षड्विधस्तु रसस्तत्र गन्धोऽपि द्बिविधो मतः ॥ स्पर्शस्तस्यापि विज्ञेयो ह्यनुष्णाशीतपाकजः । नित्यानित्या च सा द्वेधा नित्या स्यादणु- लक्षणा ॥ अनित्या तु तदन्या स्यात् सवावयवयोगिनी । सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा । योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम् । विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः ॥ वर्णः शुक्लो रसस्पर्शौ जले मधुरशीतलौ । स्नेहस्तत्र द्रवत्वन्तु सांसिद्धिकमुदाहृतम् ॥ नित्यतादि प्रथमवत् किन्तु देहमयोबिजम् । इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः ॥ * ॥ स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकद्रवत्वन्तु नित्यतादि तु पूर्ब्बवत् ॥ इन्द्रियं नयनं वह्निस्वर्णादिर्विषयो मतः । * । अपाकजानुष्णाशीतस्पर्शस्तु पवने मतः ॥ तिर्य्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः । पूर्ब्बवन्नित्यताद्युक्तं देहव्यापि त्वगिन्द्रितम् ॥ प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः ॥” इति भाषापरिच्छेदः ॥ विषय इति । भोगसाधनं विषयः । सर्व्वमेव हि कार्य्यं अदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं तत्तदुपभोगं साक्षात्परम्परया जनयत्येव नहि बीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति तेन द्व्यणुकादिब्रह्माण्डान्तं सर्व्वमेव विषयो भवतीत्यर्थः । इति सिद्धान्तमुक्तावली ॥ * ॥ नित्यसेवितः । इति भरतधृताजयः ॥ अव्यक्तः । शुक्रः । इत्यप्यजयपालः ॥ जनपदः । इति मेदिनी ॥ कान्तादिः । इति शब्दरत्नावली ॥ नियामकः । यथा, -- “विशब्दो हि विशेषार्थः सिनोतेर्ब्बन्ध उच्यते । विशेषेण सिनोतीति विषयोऽतो नियांमकः ॥” इति भट्टकारिका ॥ * ॥ आरोपाश्रयः । यथा, -- “सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा । विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसा- निका ॥” यथा, गौर्व्वाहीकः । इति काव्यप्रकाशे २ उल्लासः ॥ (“भोगसाधनं विषयः ।” इति तर्ककौमुदी ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विषयः [viṣayḥ], 1 An object of sense; (these are five, corresponding to the five organs of sense; रूप, रस, गन्ध, स्पर्श and शब्द corresponding to the eye, tongue, nose, skin, and ear); श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1.

A worldly object or concern, an affair, a transaction.

The pleasures of sense, worldly or sensual objects (usually in pl.); यौवने विषयैषिणाम् R.1.8; शब्दादीन् विषयान् भोक्तुम् 1.25; विषयव्यावृत्तकौतूहलः V.1.9; निर्विष्टविषयस्नेहः 12.1;3.7;8.1;19.49; विषया विनिवर्तन्ते निराहारस्य देहिनः Bg.2.59.

An object, a thing, matter; नार्यो न जग्मुर्विषयान्तराणि R.7.12;8.89.

An object or thing aimed at, mark, object; भूयिष्ठ- मन्यविषया न तु दृष्टिरस्याः Ś.1.3; Śi.9.4.

Scope, range, reach, compass; सौमित्रेरपि पत्रिणामविषये तत्र प्रिये क्वासि भोः U.3.45; यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः V. 1.1; सकलवचनानामविषयः Māl.1.3,36; U.5.19; Ku.6. 17.

Department, sphere, province, field, element; सर्वत्रौदरिकस्याभ्यवहार्यमेव विषयः V.3.

A subject, subjectmatter, topic; अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते Bv.1.11; so शृङ्गारविषयको ग्रन्थः 'treating of love'.

The topic or subject to be explained, general head; the first of the five members of an Adhikaraṇa q. v.

A place spot; परिसरविषयेषु लीढमुक्ताः Ki.5.38.

A country, realm, domain, territory, district, kingdom; 'विषयः स्यादिन्द्रियार्थे देशे जनपदे$पि च' इति विश्वः; अप्रविष्ट- विषयस्य सक्षसाम् R.11.18; Pt.2.2.

A refuge, an asylum.

A collection of villages.

A lover, husband.

Semen virile.

A religious observance.

A symbolical expression for the number 'five'. (विषये means 'with regard or reference to', 'in respect of', 'in the case of', 'regarding', 'concerning'; या तत्रास्ते युवतिविषये सृष्टिराद्येव धातुः Me.84; स्त्रीणां विषये; धनविषये &c.)-Comp. -अज्ञानम् sleepiness, exhaustion. -अधिकृतः the governor of a province. -अधिपतिः the king.

अभिरतिः attachment to objects of sense or worldly pleasures; द्विषतां वधेन विषयाभिरतिम् (अभिलष्यति) Ki.6. 44; so अभिलाषः Ki.3.13. -आत्मक a.

consisting of worldly objects.

carnal, sensual. -आसक्त, -निरत a. addicted to sensual objects, sensualist, worldly-minded.-आसक्तिः, -उपसेवा, -निरतिः f., -प्रसंगः addiction to pleasures of sense, sensuality. -एषिन् a. addicted to worldly objects; यौवने विषयैषिणाम् R.1.8. -कर्मन् worldly business. -ग्रामः the collection of the objects of sense. -ज्ञः a specialist. -निरतिः attachment to sensual objects. -निह्नुतिः negation with regard to an object; शौशिर्यमभ्युपत्यैव परेष्वात्मनि कामिना । औष्ण्यंप्रकाशनात्तस्य सैषा विषयनिह्नुतिः ॥ Kāv.2.36. -पतिः the governor of a province. -पराङ्मुख a. averse from mundane affairs.-प्रवण a. attached to objects of sense; Kull. on Ms. 2.99. -लोलुप a. eager for sensual enjoyment. -संगः addiction to sensual objects; सो$नुभूयासुखोदर्कान् दोषान् विषयसंगजान् Ms.12.18. -सुखम् the pleasures of sense.-स्नेहः, -स्पृहा desire for sensual objects.

"https://sa.wiktionary.org/w/index.php?title=विषयः&oldid=273897" इत्यस्माद् प्रतिप्राप्तम्