विषहरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विषहरः, त्रि, (हरतीति । हृ + अच् । विषस्य हरः ।) गरलनाशकौषधादिः । यथा । ओ~ ह्र~ जः । “मन्त्रोऽयं हरते रुद्र सर्व्ववृश्चिकगं विषम् । पिप्पली नवनीतञ्च शृङ्गवेरञ्च सैन्धवम् । मरीचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ॥ त्रिफला टङ्ककुष्ठञ्च चन्दनं घृतसंयुतम् । एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ॥ पारावतस्य चाक्षीणि हरितालं मनःशिला । एष योगो विषं हन्ति वैनतेय इवोरगान् ॥ सैन्धवं व्युषणं चूर्णं दधिमध्वाज्यसंयुतम् । वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ॥” इति गारुडे १८६ अध्यायः ॥
