विषुणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विषुणः, पुं, (विषु साम्यमस्मिन्नस्तीति । “लोमा- दीति ।” ५ । २ । १०० । इति नः । पश्चात् णत्वम् ।) विषुवम् । यथा । “विषु नानारूपं गमनं विष्वक् तदस्यास्तीति विग्रहे अगित्यु- त्तरपदलोपश्चाकृतसन्धेरिति पामादि सूत्रेण नः णत्वम् ।” इत्यमरटीकायां रामाश्रमः ॥ (नानारूपम् । यथा, ऋग्वेदे । ३ । ५४ । ८ । “चरत्पतत्त्रि विषुणं विजातम् ॥” “विषुणं विश्वक् नानारूपम् ।” इति तद्भाष्ये सायणः ॥ सर्व्वगः । यथा, ऋग्वेदे । ८ । २९ । १ । “बभ्रुरेको विषुणः ।” “विषुणः विश्वगञ्चनः ।” इति तद्भाष्ये सायणः ॥ विप्रकीर्णः । यथा, ऋग्वेदे । ५ । १२ । ५ । “सखायस्ते विषुणा अग्न एते ।” “विषुणाः विप्रकीर्णाः सर्व्वव्याप्ताः ।” इति तद्- भाष्ये सायणः ॥ पराङ्मुखः । यथा, ऋग्वेदे । ५ । ३४ । ६ । “वित्वक्षणः समृतौ चक्रमासजो- ऽसुन्वतो विषुणः सुन्वतो वृधः ।” “विषुणः पराङ्मुखः ।” इति तद्भाष्ये सायणः ॥)
