सामग्री पर जाएँ

विष्कम्भी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्कम्भी, [न्] पुं, (विष्कभ्नाति रुणद्वीति । वि + ष्कम्भ + णिनिः ।) अर्गला । यथा । “तद्विष्कम्भो- ऽर्गलं न ना । इत्यमरोक्तौ कपाटधारणकाष्ठं अर्गलं हुड्कादण्ड इति ख्यातम् । तत् कपाटं विष्कभ्नाति रुणद्धि इति ग्रहादित्वाण्णिन् तद्वि- ष्कम्भी मूर्द्धन्यवत् स्वार्थकथनमेतत् विष्कम्भीति नाम च इत्येके । तद्विष्कम्भोऽर्गलमिति मूल- पाठः । विष्कम्भो बन्धननिमित्तदण्डः । इति भट्टः । इति मुकुटः ॥ ‘विष्कम्भो योगभेदे स्यात् विस्तारप्रतिबन्धयोः । कपाटाङ्गप्रभेदे च ।’ इति मेदिनीदर्शनात् विष्कम्भ इति पाठः ।” इति तट्टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=विष्कम्भी&oldid=167449" इत्यस्माद् प्रतिप्राप्तम्