विष्टम्भः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विष्टम्भः, पुं, (वि + स्तन्भ + क्तः ।) प्रतिबन्धः । (यथा, भागवते । ५ । २२ । १२ । “स वृष्टिविष्टम्भग्रहोपशमनः ॥” * ॥ आक्रमणम् । यथा, भारविः । १३ । १६ । “प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् ॥”) रोगविशेषः । इति मेदिनी । भे, २० ॥ स तु आनाहरोगः । तस्य लक्षणमाह । “आमं सकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन । प्रवर्त्तमानं नयथास्वमेनं विकारमानाहमुदाहरन्ति ॥” आमं अपक्वमाहारसारं शकृत् पुरीषं वा क्रमेण निचितं सञ्चितम् । भूयो विगुणानिलेन दुष्टवायुना विबद्धं व्यामशोषितं वा यथास्वं पूर्ब्बवदप्रवर्त्तमानं एनं विकारं आनाह- माहुः ॥ * ॥ तत्रामजमानाहमाह । “तस्मिन् भवत्यामसमुद्भवे तु तृष्णा प्रतिश्यायशिरोविदाहाः । आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनञ्च ॥” विघातनं अप्रवृत्तिः ॥ * ॥ शकृत्सञ्चयजमाह । “स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा शकृतो वमिश्च । श्वासश्च पक्वाशयजे भवन्ति तथालसोक्तानि च लक्षणानि ॥” “सव्योषं पिप्पलीमूलं त्रिवृद्दन्ती च चित्र- कम् । तच्चूर्णं गुडसंमिश्रं भक्षयेत् प्रातरुत्थितः ॥ एतद्गुडाष्टकं नाम्ना बलवर्णाग्निवर्द्धनम् । उदावर्त्तप्लीहगुल्मशोथपाण्ड्वामयापहम् ॥” इति गुडाष्टकम् ॥ * ॥ “मूलकं शुष्कमार्द्रञ्च वर्षाभूपञ्चमूलकम् । कृतमालफलं चाप्सु पक्त्रा तेन घृतं पचेत् । तत् पीतं शमयेत् क्षिप्रमुदावर्त्तमशेषतः ॥” पञ्चमूलकमत्र बृहत् । शुष्कमूलकाद्यघृतम् ॥ * ॥ अथ आनाहस्य चिकित्सा । “तुल्यकारणकार्य्यत्वादुदावर्त्तहरीं क्रियाम् । आनाहेऽपि च कुर्व्वीत विशेषश्चाभिधीयते ॥ त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः । गुडेन तुल्या वटिका हरन्त्यानाहमुल्वणम् ॥ वर्त्तिस्त्रिकटुसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः । मधुनि गुडे वा पक्वैर्निहिता स्वाङ्गुष्ठपरि- माणाः ॥ वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृता- भ्यक्ते । आनाहोदावर्त्तौ शममति जठरं तथा गुल्मम् ॥” त्रिकटुकाद्या वर्त्तिः ॥ इति भावप्रकाशः ॥ (त्रि, विशेषेण स्तम्भयिता । यथा, ऋग्वेदे । ९ । ८६ । ३५ । “दिवो विष्टम्भ उपमो विचक्षणः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विष्टम्भः [viṣṭambhḥ], 1 Fixing firmly.
Obstruction, hindrance, an impediment.
Obstruction of the urine or ordure, constipation.
Paralysis.
Stopping, staying.
Stepping, placing the feet.
Prop, support.
Endurance, resistance; शीतोष्ण-वर्ष-पवन-विष्टम्भविभिन्न- सर्वत्वचः Mb.12.192.1.
