सामग्री पर जाएँ

विष्टर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टरः, पुं, (विस्तीर्य्यते इति । वि + स्तॄ + अप् । “वृक्षासनयोर्विष्टरः ।” ८ । ३ । ९३ । इति निपातनात् षत्वम् ।) विटपी । दभमुष्टिः । पीठाद्यासनम् । इत्यमरः ॥ आदिना कुशा- सनादिग्रहः । इति भरतः ॥ * ॥ (यथा, भागवते । ३ । २८ । १६ । “काञ्चीगुणोल्लसत्श्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयनवर्द्धनम् ॥”) विष्टरलक्षणमाह । विष्टरस्तु सार्द्धद्बितयवामा- वर्त्तवलिताधोमुखाग्रा असंख्यातदर्भाः । तथा च गृह्यासंग्रहः । “ऊर्द्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः । दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः ॥” इति ॥ छन्दोगपरिशिष्टम् । “दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि ॥” एवञ्च । “पञ्चाशद्भिर्भैवेद्ब्रह्मा तदर्द्धेन तु विष्टरः ॥” इति यदि समूलं तदा शाख्यन्तरीयम् । एतेन विष्टरे पञ्चविंशतिसंख्या भवदेवभट्टोक्ता निरस्ता । एवं विष्टरग्रहणं हस्ताभ्यामपि यदुक्तं तदपि निरस्तम् । “यत्रोपदिश्यते कर्म्म कर्त्तुरङ्गं न चोच्यते । दक्षिणस्तत्र विज्ञेयः कर्म्मणां पारगः करः ॥” इति छन्दोगपरिशिष्टात् । इति संस्कार- तत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टर पुं।

पीठाद्यासनम्

समानार्थक:विष्टर

3।3।170।1।1

विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्. द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

विष्टर पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।170।1।1

विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्. द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

विष्टर पुं।

दर्भमुष्टिः

समानार्थक:विष्टर

3।3।170।1।1

विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्. द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टर¦ पु॰ वि + स्तृ--अप् षत्वम्।
“ऊर्द्धकेशो भवेद्ब्रह्मालम्बकेशस्तु विष्टरः” इति
“वामावर्त्तस्तु विष्टर” इतिच स्मृत्युक्ते दर्भकृते

१ आसनभेदे

२ आसनमात्रे

३ वृक्षे

४ कुशमुष्टौ च अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टर¦ m. (-रः)
1. A tree.
2. A handful of Kus4a or sacred grass.
3. A seat, a stool, a chair, a couch, &c.
4. The seat of the Bra4hman, either real or in effigy, as presiding at a sacrifice.
5. A bed.
6. A seat made of twenty-five straws of Kus4a grass tied up in a sheaf. E. वि before स्तृ to spread, aff. अप् and स changed to ष |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टरः [viṣṭarḥ], 1 A seat (a stool, chair &c.); कुशपूतं प्रवयास्तु विष्टरम् (आददे) R.8.18; वृक्षशाखां स्वयं छित्वा विष्टराय ददौ मुदा A. Rām.4.1.32.

A layer, bed (as of Kuśa grass.).

A handful of Kuśa grass.

The seat. of the presiding priest (or Brahman) at a sacrifice.

A tree.

An ascetic seat made of 25 Kuśa grassshoots ('पञ्चाशद्भिर्भवेद् ब्रह्मा तदर्धेन तु विष्टरः'); विष्टरासनयोग्यो हि कालो$यं मामुपस्थितः Rām.2.2.28. -Comp. -भाज् a. seated on or occupying a seat; तत्रेश्वरो विष्टरभाग् यथावत् Ku.7.72. -श्रवस् m. an epithet of Viṣṇu or Kṛiṣṇa; तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः Śi.14.12; Mb.14.14.2.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टर/ वि-ष्टर m. ( स्तृ)anything spread out , a handful of rushes or grass for sitting on ( esp. the seat of the presiding Brahman at a sacrifice) Gr2S3rS. MBh.

विष्टर/ वि-ष्टर m. a seat made of 25 shoots of कुशgrass tied up in a sheaf W.

विष्टर/ वि-ष्टर m. a tree L.

विष्टर/ वि-ष्टर m. N. of a divine being reckoned among the विश्वेदेवाःHariv.

विष्टर/ वि-ष्टर mn. any seat or couch , chair , stool etc. MBh. Ka1v. etc.

विष्टर/ वि-ष्टर mfn. = वि-स्तर, extensive , wide (?)See. comp.

"https://sa.wiktionary.org/w/index.php?title=विष्टर&oldid=274807" इत्यस्माद् प्रतिप्राप्तम्