सामग्री पर जाएँ

विष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टिः, स्त्री, (विष + क्तिन् ।) वेतनं विना हठा- द्भारोद्वहनादिक्लेशः । वेगार इति ख्यातः । तत्पर्य्यायः । आजूः २ । इत्यमरः ॥ हठाद- भृतिकः क्लेशो विजातरूपो विष्टिरिति भट्ट- स्वामी ॥ द्वे वेतनमन्तरेण कर्म्मकरणे कर्म्म- कारिणि चेत्यन्ये । त्रिषु कर्म्मकरे विष्टिः स्त्रिया- मभृतिकर्म्मणीति रुद्रः । इति भरतः ॥ * ॥ (यथा, रामायणे । २ । ८२ । २० । “विष्टिकर्म्मान्तिकाः सर्व्वे मार्गशोधक- रक्षकाः ॥”) वेतनम् । कर्म्म । इति मेदिनी । टे, २९ ॥ (यथा, भागवते, । ७ । ८ । ५५ । “वयमीशकिन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः ॥”) भद्रा । वर्षणम् । इति विश्वः ॥ प्रेषणम् । इति हेमचन्द्रः ॥ सा च भद्रा ववाद्येकादशकरणा- न्तर्गतसप्तमकरणं पञ्जिकायां तस्या अङ्कं शून्यम् । यथा, -- “ववबालवकौलवतैतिल गरबणिजाः सविष्टयः सप्त । शकुनिचतुष्पन्नागाः किन्तुघ्नश्च ध्रुवाणि करणानि ॥ शुक्लादितिथिशेषार्द्धात् पञ्चमे तत्तुरीयके । आद्यन्तार्द्धात् क्रमेण स्युरष्टावृत्त्या ववादयः ॥ एकादश्याश्चतुर्थ्याश्च शोषार्द्धे शुक्लपक्षके । अष्टमीपौर्णमास्योश्च पूर्ब्बार्द्धे विष्टिरीरिता ॥ कृष्णपक्षे तृतीयाया दशम्याश्च परार्द्धतः । सप्तम्याश्च चतुर्द्दश्याः पूर्ब्बार्द्धे विष्टिसम्भवः ॥ विहाय विषरौद्राणि विष्टिं सर्व्वत्र वर्ज्जयेत् । विष्टिशेषे त्रिदण्डे हि पुच्छे कार्य्यं जयावहम् ॥” कर्म्मप्रकाशे । “नाड्यस्त पञ्च वदनं गलकस्तथैका वक्षो दशैकसहिता नियतं चतस्रः । नाभिः कटिः षडथ पुच्छलता च तिस्रो विष्टेर्ध्रवं निगदितोऽङ्गविभाग एषः ॥ मुखे कार्य्यध्वस्तिर्भवति मरणं चाथ गलके धनग्लानिर्वक्षस्यथ कटितटे बुद्धिविलयः । कलिर्नाभीदेशे विजयमथ पुच्छे च जगदुः शरीरे भद्रायाः पृथगिति फलं पूर्ब्बमुनयः ॥ मनुवसुमुनितिथियुगदश- शिवगुणसंख्यासु तिथिषु पूर्ब्बाग्न्योः । १४ । ८ । ७ । १५ । ४ । १० । ११ । ३ । आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्व- शुभदा ॥” पूर्ब्बाग्न्योः पूर्ब्बाग्न्यादिदिङ्मुखी भवति इत्यर्थः ॥ “एकेन हीना द्विगुणा तिथिस्तु सप्तावशिष्टं करणं ववादि । पूर्ब्बे परेऽप्येवमयं विशेषो द्विसंगुणा चन्द्रविवर्ज्जिता च ॥ किन्तुध्नसंज्ञं करणं प्रदिष्ट- मादेस्तिथेरादिदले सदैव । उपान्त्यशेषे शकुनिस्तु दर्शे पूर्ब्बे चतुष्पादपरे च नागः ॥ इन्द्रकमलजचित्रार्य्यमभूश्रियः सयमा ववादेः । कलिवृषफणिमारुताः पतयः शकुन्यादेः ॥” ववाद्यधिपकथनम् ॥ “पौष्टिकस्थिरशुभानि ववाख्ये वालवे द्विजहिताद्यपि कर्म्म । कौलवे प्रमदमित्रविधानं तैतिले शुभगताश्रयकर्म्म ॥ गरे च बीजाश्रयकर्षणानि बणिज्यपि स्थैर्य्यबणिक्क्रिया च । न सिद्धिमाप्नोति कृतञ्च विष्ट्यां विषाभिघातादिषु तत्र सिद्धिः ॥ मन्त्रौषधानि शकुनौ च सपौष्टिकानि गोविप्रराज्यपितृकर्म्म चतुष्पदे तु । सौभाग्यदारुणकृतिध्रुवकर्म्मनागे किन्तुघ्ननाम्नि शुभपौष्टिकमङ्गलानि ॥” इति ज्योतिस्तत्त्वम् ॥ (यथा, कलाविलासे । २ । ११ । “कश्चिद्वदति समेत्य द्रविणं निःक्षिप्य हन्त- गन्तास्मि । भ्रातःपरं प्रभाते विष्टिदिनं किं करोम्यद्य ॥”)

विष्टिः, त्रि, (विष् + क्तिच् ।) कर्म्मकरः । इति मेदिनी । टे, २९ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टि स्त्री।

नरके_हढात्_प्रक्षेपः

समानार्थक:विष्टि,आजू

1।9।3।1।1

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टि¦ स्त्री विष--क्तिन् क्तिच् वा। वेतनं विना भारादिव-हनजन्ये

१ क्लेशे अमरः।

२ वेतने

३ कर्मणि

४ वर्षणे

५ तिर्थ्यर्द्धात्मककरणमध्ये सप्तमे करणे विश्वः। भद्रशब्दे

४६

३७ पृ॰ दृश्यम्।

६ प्रेषणे हेमच॰।

७ कर्मकरे भूत्ये

८ वेतनं विना कर्मकरे च त्रि॰ मेदि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टि¦ mfn. (-ष्टिः-ष्टिः-ष्टि) Working, labouring, a workman. f. (-ष्टिः)
1. Unpaid labour, working without wages.
2. Occupation, act, action.
3. Hire, wages.
4. The seventh of the variable Karan4as, or astro- logical periods so termed, each answering to half a lunar day.
5. Sending, dispatching.
6. Consigning to torture, casting into hell, &c. E. विश् to enter, (into pain by it,) and क्तिन् or क्तिच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टिः [viṣṭiḥ], f. [विष्-क्तिन् क्तिच् वा]

Pervading.

An act, occupation.

Hire, wages.

Unpaid labour; दण़्ड- विष्टिकराबाधै रक्षेदुपहतां कृषिम् Kau. A.

Sending.

Residence in hell to which one is condemned.

See विष्टिकारिन्; Mb.12.59.41. -Comp. -करः the lord of slaves, of unpaid labourers; Mb.3.19.73. -कारिन् an unpaid forced labourer (Mar. वेठबिगार); भारयष्टि- धरैश्चापि पुरुषैर्विष्टिकारिभिः Śiva B.3.23. -कर्मान्तिकः (= विष्टिकारिन्); Rām.2.82.2.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्टि f. (for 2. See. p. 999 , col. 1) service , ( esp. ) forced -sservice , compulsory work , drudgery (also collectively " servants , slaves , bondsmen ") MBh. R. Inscr. ( ifc. also टिक)

विष्टि m. N. of one of the seven ऋषिs in the 11th मन्व्-अन्तरMa1rkP.

विष्टि f. (for 1. See. p. 996 , col. 2)= वृष्टि, rain L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a daughter of विवस्वान् and छाया; became काल of cruel deeds. M. ११. 9, ३९.
(II)--a युगादि for श्राद्ध. M. १७. 3.
"https://sa.wiktionary.org/w/index.php?title=विष्टि&oldid=437666" इत्यस्माद् प्रतिप्राप्तम्