सामग्री पर जाएँ

विष्णुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुः, पुं, अग्निः । इति शब्दमाला ॥ शुद्धः । वसुदेवता । इति धरणिः ॥ (द्वादशादित्या- नामन्यतमः । यथा, महाभारते । १ । ६५ । १६ । “एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”) धर्म्मशास्त्रकर्त्तृमुनिविशेषः । यथा, -- “मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्त्ताः कात्यायनबृहस्पती ॥ पराशरव्यासशङ्खलिखिता दक्षगोतमौ । सातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥” इति याज्ञवल्क्यसंहिता ॥ ब्रह्मणो रूपविशेषः । तस्य व्युत्पत्तिर्यथा । वेवेष्टि व्याप्नोति विश्वं यः । वेषति सिञ्चति आप्यायते विश्वमिति वा । विष्णाति वियुनक्ति भक्तान् मायापसारणेन संसारादिति वा । विशति सर्व्वभूतानि विशन्ति सर्व्वभूतानि अत्रेति वा । “यस्माद्विश्वमिदं सर्व्वं तस्य शक्त्या महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥” इति विष्णुपुराणम् । इत्यमरटीकायां भरतः ॥ (“बृहत्वात् विष्णुरुच्यते ।” इति महाभारते । ५ । ७० । ३ ॥) तत्पर्य्यायः । नारायणः २ कृष्णः ३ वैकुण्ठः ४ विष्टरश्रवाः ५ दामोदरः ६ हृषीकेशः ७ केशवः ८ माधवः ९ स्वभूः १० दैत्यारिः ११ पुण्डरीकाक्षः १२ गोविन्दः १३ गरुडध्वजः १४ पीताम्बरः १५ अच्युतः १६ शार्ङ्गी १७ विष्वक्- सेनः १८ जनार्द्दनः १९ उपेन्द्रः २० इन्द्रावरजः २१ चक्रपाणिः २२ चतुर्भुजः २३ पद्मनाभः ३४ मधुरिपुः २५ वासुदेवः २६ त्रिविक्रमः २७ दैवकीनन्दनः २८ शौरिः २९ श्रीपतिः ३० पुरुषोत्तमः ३१ वनमाली ३२ वलिध्वंसी ३३ कंसारातिः ३४ अधोक्षजः ३५ विश्वम्भरः ३६ विष्णुलोकगमनकारणं यथा, -- “कर्म्मभोगी सकामः स्यान्निष्कामो निरुपद्रवः । स याति देहं त्यक्त्वा च पदं विष्णोर्निरामयम् । पुनरागमनं नास्ति तेषां निष्कामिणां सति ॥ ये सेवन्ते च द्विभुजं कृष्णमात्मानमेव च । गोलोकं ते नरा यान्ति दिव्यरूपविधारिणः ॥ ये च नारायणं भक्त्या सेवन्ते च चतुर्भुजम् । वकुण्ठं यान्ति ते सर्व्वे दिव्यरूपविधारिणः ॥ सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च । भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥ कालेन ते च निष्कामा भवन्त्येव क्रमेण च । भक्तिञ्च निर्म्मलां बुद्धिं तेभ्यो दास्यति निश्चितम् ॥ हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः । तेऽपि यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुः [viṣṇuḥ], [विष् व्यापने नुक् Uṇ.3.39]

The second deity of the sacred Triad, entrusted with the preservation of the world, which duty he is represented to have duly discharged by his various incarnations; (for their descriptions see the several avatāras s. v. and also under अवतार); the word is thus popularly derived: यस्माद्विश्व- मिदं सर्वं तस्य शक्त्या महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥.

N. of Agni; विष्णुर्नामेह यो$ग्निः Mb.3.221.12.

A pious man.

N. of a law-giver, author of a Smṛiti called विष्णुस्मृति.

N. of one of the Vasus.

The lunar mansion called Śravaṇa (presided over by Viṣṇu).

N. of the month चैत्र. -Comp. -काञ्ची N. of a town.-क्रमः the step or stride of Viṣṇu. -क्रान्ता N. of various plants. -गुप्तः N. of Chāṇakya. -ग्रन्थिः a particular joint of the body. -जनः a devotee, saint; अध्यगान्मह- दाख्यानं नित्यं विष्णुजनप्रियः Bhāg.1.7.11. -तिथिः N. of the 11th and 12th lunar days of each fortnight. -तैलम् a kind of medicinal oil. -दत्तः N. of परीक्षित. -दैवत्या N. of the eleventh and twelfth days of each fortnight (of a lunar month).

धर्मः Dharma enjoining the proper worship of Viṣṇu.

a kind of श्राद्ध. -धर्मोत्तरपुराणम् N. of an उपपुराण.

पदम् the sky, atmosphere.

the sea of milk.

the foot of Viṣṇu (worshipped at Gayā).

a lotus.

पदी an epithet of the Ganges; निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता Brav. P.; Bhāg.1.19. 7.

the sun's passage (into the zodiacal signs वृषभ, सिंह, वृश्चिक and कुम्भ). -पुराणम् N. of one of the most celebrated of the eighteen Purāṇas.

प्रिया basil.

Lakṣmī. -प्रीतिः f. land granted rent-free to Brāhmaṇas to maintain Viṣṇu's worship. -माया N. of Durgā. -मित्रः a common name (like अमुक); तस्मादपि विष्णुमित्र इत्यनवस्थितिः Bhāg.5.14.24. -रथः an epithet of Garuḍa. -रातः N. of king Parīkṣita; स विष्णुरातो$तिथय आगताय तस्मै सपर्यां शिरसा जहार Bhāg.1.19.29. -विङ्गी a quail. -लोकः Viṣṇu's world; मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति Stotra.

वल्लभा an epithet of Lakṣmī.

the holy basil. -वाहनः, -वाह्यः epithets of Garuḍa. -शक्तिः Lakṣmī -हिता basil.

"https://sa.wiktionary.org/w/index.php?title=विष्णुः&oldid=274918" इत्यस्माद् प्रतिप्राप्तम्