सामग्री पर जाएँ

विष्णुगृह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुगृहम्, क्ली, (विष्णवे प्रतिष्ठितं गृहम् ।) विष्णुमन्दिरम् । स्तम्बपुरम् । इति हेमचन्द्रः ॥ विष्णुगृहकरणफलं यथा, -- “अष्टेष्टकासमायुक्तं यः कुर्य्याद्वैष्णवं गृहम् । न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित् ॥” इति हरिभक्तिविलासे । २० । १४ ॥ “यैस्तु देवालयं विष्णोः शुभं दारुमयं कृतम् । कारयेन्मृण्मयं वापि शृणु तस्य फलं मुने ॥ अहन्यहनि योगेन यजतो यन्महाफलम् । प्राप्नोति तत् फलं विष्णोर्यः कारयति मन्दिरम् ॥ कुलानां शतमागामि समतोतं तथा शतम् । कारयेद्भगवद्धाम नयत्यच्युतलोकताम् ॥ सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु । विष्णोरालयविन्यासप्रारम्भादेव नश्यति ॥ सप्तलोकमयो विष्णुर्यस्तस्य कुरुते गृहम् । प्रतिष्ठां समवाप्नोति स नरः साप्तलौकिकीम् ॥ प्रशस्तदेशे भूभागे प्रशस्तं भवनं हरेः । कारयत्यखिलान् लोकान् स नरः प्रतिपद्यते ॥ इष्टकानाञ्च विन्यासो यावद्वर्षाणि तिष्ठति । तावद्वर्षसहस्राणि तत्कर्त्ता दिवि संस्थितः ॥ चिकीर्षोरपि कृष्णस्य मन्दिरं पुण्यकारिणः । नरस्य क्षयमायाति पापं जन्मशतोद्भवम् ॥ ये ध्यायन्ति सदा वृत्त्या करिष्यामि हरेर्गृहम् । तेषां विलीयते पापं पूर्व्वजन्मशतोद्भवम् ॥ येऽनुमोदन्ति कृष्णस्य क्रियमाणं हरेर्गृहम् । तेऽपि पापविनिर्म्मुक्ता वैष्णवं लोकमाप्नुयुः ॥ कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् । स्वर्गञ्च वैष्णवं लोकं मोक्षञ्च लभते क्रमात् ॥ समतीतं भविष्यञ्च कुलानामयुतं नरः । विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम् ॥ दुष्प्राप्यं यत् फलं विप्रा वाजिमेधादिभिर्म्मखैः । प्राप्यते तत् सुखेनैव निवेश्य भवनं हरेः ॥ ये हताभिमुखाः शूरा गोविप्रार्थे रणाजिरे । स तत्फलमवाप्नोति कारयित्वा हरेर्गृहम् ॥ पक्वेष्टरचितं रम्यं पञ्चप्रासादसंयुतम् । कारयित्वा हरेर्धाम धूतपापो व्रजेद्दिवम् ॥ लक्षेणार्द्धसहस्रेण शतेनार्द्धेन वा हरेः । तुल्यं फलं समाख्यातं तदीश्वरदरिद्रयोः ॥ पतितं पतमानन्तु तथार्द्धपतितं तथा । समुद्धृत्य हरेर्धाम द्विगुणं फलमाप्नुयात् ॥” इति वह्निपुराणे वैष्णवक्रियायोगे यमानुशासन- नामाध्यायः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुगृह¦ n. (-हं) The name of a city or country; also Stambapuri
4. E. विष्णु, गृह residence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुगृह/ विष्णु--गृह n. " विष्णु's abode " , N. of ताम्र-लिप्तL.

"https://sa.wiktionary.org/w/index.php?title=विष्णुगृह&oldid=274998" इत्यस्माद् प्रतिप्राप्तम्