सामग्री पर जाएँ

विष्णुतैलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुतैलम्, क्ली, (विष्णुनामकं तैलम् ।) अश्विनी- कुमारकृतपक्वतैलविशेषः । यथा, -- “स्नानीयं विष्णुतैलञ्च स्वर्व्वैद्येन विनिर्म्मितम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे १३ अध्यायः ॥ * ॥ अथ स्वल्पविष्णुतैलम् । “शालपर्णीपृश्निपर्णीवलागोरक्षतण्डुलाः । एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च ॥ शतावरी सहचरं पचेदेतैः पलोन्मितैः । तैलप्रस्थं पयो दत्त्वा गव्यं वाजं चतुर्गुणम् ॥ अस्य तैलस्य पक्वस्य शृणु वीर्य्यमतः परम् । वातार्त्ता नरनागाश्च पीत्वा दृढतनुत्वचः ॥ हृत्पार्श्वशूले वातासे गलगण्डेऽर्द्दिते क्षये । शर्कराश्मरिपाण्डुत्वकामलार्द्धावभेदके ॥ क्षीणेन्द्रियेऽन्त्रवृद्धौ च जराजर्ज्जरिते हितम् । स्त्रीणाम्श्वतरीणाञ्च गर्भस्थितिकरं परम् ॥ एतदङ्गवरं तैलं विष्णुना परिकीर्त्तितम् ॥” तण्डुलः गोरक्षतण्डुलः । बृहत्योर्बृहतीकण्ट- कार्य्योः । पूतिको नाटाकरञ्जः । सहचरो झिण्टी । अत्र क्वाथान्तराभावात् क्षीरस्य चतुर्गुणं जलं कश्चिद्ददाति । “स्वरसक्षीरमाङ्गल्यैः पाको यत्रेरितः क्वचित् । जलं चतुर्गुणं तत्र वीर्य्याधानार्थमारपेत् ॥” इति परिभाषाबलात् ॥ क्वचिदिति पाठात् क्वाथान्तररहिते केवल- क्षीरादिसहिततैलादिपाके ज्ञातव्यं न तु सर्व्वत्र । “एलाचन्दनकुङ्कुमागुरुमुराकक्कोलमांसीशटी- श्रीवासश्छदग्रन्थिपर्णशशभृत्क्षौणीध्वजोशी- रकम् । कस्तूरिनखपूतिशैलजलमुङ्मेथीलवङ्गादिकं गग्धद्रव्यमिदं प्रदेयमखिलं श्रीविष्णुतैलादिषु ॥” अथ बृहद्विष्णुतैलम् । “जलधरमश्वगन्धाजीवकर्षभकौ शटी । काकोली क्षीरकालोली जीवन्ती मधुयष्टिका ॥ मधूरिका देवदारु पद्मकाष्ठञ्च सैन्धवम् । मांसी चैला त्वचं कुष्ठं रक्तचन्दनशैलजम् ॥ मञ्जिष्ठा मृगनाभिश्च श्वेतचन्दनकुङ्कुमम् । पर्णी कुन्दुरु खोटिश्च ग्रन्थिकञ्च नखी तथा ॥ एतेषां पलिकैर्भागैस्तैलस्यापि तथाढकम् । शतावरीरससमं दुग्धञ्चापि समं भवेत् ॥ विष्णुतैलवरं श्रेष्ठं सर्व्ववातविकारनुत् । ऊर्द्ध्ववाते ह्यधोवाते अङ्गविग्रह एव च ॥ शिरोमध्यगता ये च मन्या स्तम्भे गलग्रहे । यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला ॥ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः । सर्व्वांस्तान्नाशयत्याशु सूर्य्यस्तम इवोदितः ॥” इति भैषज्यरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=विष्णुतैलम्&oldid=167491" इत्यस्माद् प्रतिप्राप्तम्