सामग्री पर जाएँ

विष्णुधर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुधर्म्मः, पुं, (विष्णुप्रधानो धर्म्मोऽस्मिन् ।) शास्त्र- विशेषः । यथा । “ब्रह्मचारिकाण्डे भविष्य- पुराणम् । ‘अष्टादश पुराणानि रामस्य चरितं तथा । विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ॥ कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् । सौराश्च धर्म्मा राजेन्द्र मानवोक्ता महीपते । जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥’ जयत्यनेन संसारमिति जयस्तत्तद्ग्रन्थः ॥” इति तिथादितत्त्वम् ॥ * ॥ विद्याविशेषः । यथा, -- “अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्म्माख्यविद्यया । सर्व्वान् शत्रून् विनिर्जित्य ताञ्च वक्ष्ये महेश्वर ॥ पादयोर्जानुनोरूर्व्वोरुदरे हृद्यथोरसि । मुखे शिरस्यानुपूर्ब्बादोङ्कारादिं विनिर्द्दिशेत् ॥ ओ~ नमो नारायणायेति विपर्य्ययमथापि वा । करन्यासं ततः कुर्य्यात् द्वादशाक्षरविद्यया ॥ प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्व्वसु । न्यस्येत् हृदय ओ~कारं नकारं मम मूर्द्धनि ॥ मोकारन्तु भ्रुवोर्म्मध्ये शिखानेत्रादिमूर्द्धतः । ओ~ विष्णवे नम इति इमं मन्त्रमुदाहरेत् ॥ आत्मानं परमं ध्यायेच्छेषषट्शक्तिभिर्युतम् । मम रक्षां ततः कुर्य्यान्मत्स्यमूर्त्तिर्जलेऽवतु ॥ त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः । अटव्यां नरसिंहस्तु रामो रक्षतु पर्व्वते ॥ भूमौ रक्षतु वाराहो हंसो नारायणोऽवतु । कर्म्मबन्धाच्च काम्पिल्यदत्तो योगात्तु रक्षतु ॥ हयग्रीवो देवतायाः कुमारो मकरध्वजात् । नारदोऽन्यार्च्चनात् पायात् कूर्म्मो वै नैरृतेः सदा ॥ धन्वन्तरिरपथ्याच्च नागः क्रोधवशात् किल । यज्ञलोकाद्वलः कालाद्व्यासो ज्ञानाच्च रक्षतु ॥ बुद्धः पाषण्डसंघातात् कल्किरव्यात् कलेः समम् । पायान्मध्यं दिने विष्णुः प्रातर्नारायणोऽवतु ॥ मधुहा चापराह्णे च सायं रक्षतु माधवः । हृषीकेशः प्रदोषेऽव्यात् प्रत्यूषेऽव्याज्जनार्द्दनः ॥ श्रीधरोऽव्यादर्द्धरात्रे पद्मनाभो निशान्तके । चक्रकौमोदकीबाणाः घ्नन्तु शत्रूंश्च राक्षसान् ॥ शङ्खशब्दश्च शत्रुभ्यः शार्ङ्गो वै गरुडस्तथा । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ शेषैः सर्व्वैर्म्मुदापन्नः सदा सर्व्वत्र पान्तु माम् । विदिक्षु दिक्षु च सदा नरसिंहश्च रक्षतु ॥ एतद्धारयमाणश्च यं यं पश्यति चक्षुषा । स वशी स्याद्बिपाप्मा च रोगान्मुक्तो दिवं व्रजेत् ॥” इति गारुडे २०१ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुधर्म्म¦ पु॰ विष्णूपासनायोग्यो धर्मः शाक॰। विष्णूपा-सनोचिते

१ नियमभेदे उपचारात् तत्प्रतिपादके

२ ग्रन्थे च

"https://sa.wiktionary.org/w/index.php?title=विष्णुधर्म्म&oldid=275128" इत्यस्माद् प्रतिप्राप्तम्