सामग्री पर जाएँ

विष्णुपञ्जरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विष्णुपञ्जरम्, क्ली, (विष्णुरेव पञ्जरमिव यस्मिन् । तद्धारयितुर्निर्भयरक्षणकारित्वादस्य तथात्वम् ।) विष्णु कंवचविशेषः । यथा, -- “प्रवक्ष्याम्यधुना त्वेतद्बैष्णवं पञ्जरं शुभम् । नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ॥ प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः । गदां कौमोदकीं गृह्य पद्मनाभामितद्युते ॥ याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः । हलमादाय सौनन्दं नमस्ते पुरुषोत्तम । प्रतीच्यां रक्ष मां विष्णो भवन्तं शरणागतम् ॥ पाञ्चजन्यं तथा शङ्खं शार्ङ्गञ्चाप्यथ पङ्कजम् । प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञशूकर ॥ चर्म्म सूर्य्यशतं गृह्य खड्गं चन्द्रसमं तथा । नैरृत्यां माञ्च रक्षस्व दिव्यमूर्त्ते नृकेशरिन् ॥ वैजयन्तीं प्रगृह्य त्वं श्रीवत्स्यकण्ठभूषण । वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥ वैनतेयं समारुह्य अन्तरीक्षे जनार्द्दन । मां त्वं रक्षाजित सदा नमस्तेऽस्त्वपराजित ॥ विशालाक्षं समारुह्य रक्ष मां त्वं रसातले । अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ॥ करशीर्षाङ्घ्रिसर्व्वेषु तथाष्टभुजपञ्जरम् । कृत्वा त्वं रक्ष मां देव नमस्ते पुरुषोत्तम ॥ एतदुक्तं भगवता वैष्णवं पञ्जरं महत् । पुरा रक्षार्थमीशेन कात्यायन्या द्बिजोत्तम ॥ यदा सा नाशयामास दानवं महिषासुरम् । चामरं रक्तबीजञ्च तथान्यान् सुरकण्टकान् ॥” इति वामने १७ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=विष्णुपञ्जरम्&oldid=167502" इत्यस्माद् प्रतिप्राप्तम्