विष्णुमाया
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विष्णुमाया, स्त्री, (विष्णोर्माया ।) दुर्गा । यथा, -- नारद उवाच । “दुर्गा नारायणीशाना विष्णुमाया शिवा सती । नित्या सत्या भगवती सर्व्वाणी सर्व्वमङ्गला ॥ अम्बिका वैष्णवी गौरी पार्व्वती च सनातनी । नामानि कौथुमोक्तानि शुभानि शुभदानि च ॥ अर्थं षोडशनाम्नाञ्च सर्व्वेषामीप्सितं वरम् । ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्व्वसम्मतम् ॥ नारायण उवाच । सृष्ट्वा मायां पुरा सृष्टौ विष्णुना परमात्मना । मोहितं मायया विश्वं विष्णुमाया च कीर्त्तिता ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ अपि च । ब्रह्मोवाच । “विष्णुमायामृते दक्ष महामायां जगन्मयीम् । नान्या संमोहकर्त्री स्यात् सन्ध्या सावित्र्यु- पासिका ॥ तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् । स्तौमि सा चारुरूपेण शङ्करं मोहयिष्यति ॥ भवांश्च दक्ष तामेव यजतां विश्वरूपिणीम् । यथा तव सुता भूत्वा हरजाया भविष्यति ॥” इति कालिकापुराणे ५ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विष्णुमाया¦ स्त्री
६ त॰। विष्णोः परमेश्वरस्य माया।
१ अघ-टनघटनपटीयस्याम् ईशस्याविद्याशक्तौ
२ तदधिष्ठात्य्रांदुर्गायाञ्च।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विष्णुमाया/ विष्णु--माया f. " -V विष्णु's illusion " , a form of दुर्गाKa1lP.