विष्णुयशास्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विष्णुयशाः, [स्] पुं, (विष्णु व्यापकं यशो यस्य । नारायणपितृत्वादेवास्य तथात्वम् । यद्वा, विष्णुना ग्रहीतव्यजन्मना यशो यस्य ।) ब्रह्म- यशःपुत्त्रः । स च कल्किपिता । यथा, -- नारद उवाच । “अहो बलवती माया सर्व्वाश्चर्य्यमयी शुभा । पितरं मातरं विष्णोर्नैव मुञ्चति कर्हिचित् ॥ पूर्णो नारायणो यस्य सुतः कल्किर्जगत्पतिः । तं विहाय विष्णुयशा मत्तो मुक्तिमभीप्सति ॥ विविच्येत्थं ब्रह्मसुतः प्राह ब्रह्मयशःसुतम् । विविक्ते विष्णुयशसं ब्रह्मसम्पद्विवर्द्धनम् ॥” इति कल्किपुराणे ३० अध्यायः ॥
