विसर्ज्जनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विसर्ज्जनम्, क्ली, (वि + सृज् + ल्युट् ।) दानम् । परित्यागः । इत्यमरः ॥ (यथा, रघुवंशे । ८ । २५ । “श्रुतदेहविसर्ज्जनं पितु- श्चिरमश्रूणि विमुच्य राघवः ॥”) संप्रेषणम् । इति मेदिनी । ने, २०५ ॥ (पुं, यदुवं- शीयानामन्यतमः । यथा, भागवते । ११ । ३० । १८ । “विसर्ज्जनाः कुकुराः कुन्तयश्च मिथस्तु जघ्नुः सुविसृज्य सौहृदम् ॥” विशेषेण सृज्यते इति । वि + सृज + कर्म्मणि ल्युट् । उत्पादिते, त्रि । यथा, भागवते । १० । १६ । ५७ । “त्वया सृष्टमिदं विश्वं धातुर्गुणविसर्ज्जनम् ॥”)
