विसर्प
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विसर्पः, पुं, (वि + सृप + घञ् ।) रोगविशेषः । तत्पर्य्यायः । विसर्पिः २ सचिवामयः ३ । इति राजनिर्घण्टः ॥ तत्र विप्रकृष्टं निदानं संख्यां निरुक्तिञ्चाह । “लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्व्वतः परिसर्पणात् ॥” आदिशब्दाच्चरकोक्तहरितशाकशिण्डाकप्रभृ- तीनां ग्रहणम् ॥ * ॥ सप्तधात्वं विषृणोति । “पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्बन्द्वजास्त्रयः । वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः ॥ आग्नेयो वातपित्ताभ्यां ग्रन्थाख्यः कफवातजः । लेपो दशाङ्गः सघृतः प्रयोज्यो विसर्पकुष्ठज्वरशोथहारी ॥” नतं तगरम् । चन्दनमत्र रक्तं ग्राह्यम् । दशाङ्गो लेपः ॥ * ॥ “परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः । पद्मकोशीरमधुकं चन्दनैला विसर्पणे ॥ भूनिम्ववासा कटुका पटोल- फलत्रयं चन्दननिम्बसिद्धः । विसर्पदाहज्वरशोथकण्डूं विस्फोटतृष्णावमिहृत् कषायः ॥ कुष्ठानि यानि सर्पिंषि व्रणेषु विविधेषु च । विसर्पे तानि योज्यानि सेकालेपनभोजनैः ॥ * ॥ करञ्जसप्तच्छदलाङ्गलीक- स्नुह्यर्कदुग्धानलभृङ्गराजैः । तैलं निशामूत्रविषैर्विपक्वं विसर्पविस्फोटविचर्च्चिकाघ्नम् ॥ इति करञ्जादितैलम् ॥ * ॥ “कुष्ठामयस्फोटमसूरिकोक्त- चिकित्सयाप्याशु हरेद्बिसर्पान् । सर्व्वान् विकारान् परिशोध्य धीमान् व्रणं क्रमेणोपचरेद्यथोक्तम् ॥” इति विसर्पाधिकारः । * । इति भावप्रकाशः ॥ (वेगः । यथा, उत्तरचरिते । “प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ॥” नाट्यालङ्कारविशेषः । तल्लक्षणादिकं यथा, साहित्यदर्पणे । ६ । ४८५ । “विसर्पो यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥” यथा वेण्याम् । एकस्य तावत् पाकोऽयमि- त्यादि ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वि(वी)सर्प¦ पु॰ वि + सृप--घञ् वा दीर्घः। रोगभेदे तल्लक्ष-णादि भावप्र॰ उक्तं यथा तत्र विसर्पविप्रकृष्टनिदानं संख्यांनिरुक्तिञ्चाह
“लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः। विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात्” आदिशब्दाच्चर-{??}ओक्तहरितशाक{??}कीप्रमृतीनां ग्रहणम्। सप्तधात्वंविवृणोति
“वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः। चात्वारः एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः। आग्नेयोवातपित्ताभ्यां ग्रन्थिस्थः कफवातजः। यस्तु कर्दमकोथोरः स पित्तकफसम्भवः”। विसर्पदोषदूष्याणि संगृह्याह
“रक्तं लसीकात्वङ्मांसं दूष्यं दोषास्त्रयो मलाः। विस-र्पाणां समुत्पत्तौ हेतवः सप्त धातवः”। त्रयो मलाः वात-पित्तकफाः दोषा दूषका इत्यर्थः। अन्यथा दोषामलाइत्यत्र पुनरुक्तिदोषो लगिष्यते। वातिकस्य लक्षणमाह
“तत्र वातात्परीगर्पो वातज्वर{??}मव्यथः। शोफस्फुरण-निस्तोदभेदायामार्तिहर्षवान्”। परीसर्पो विसर्पः। वातज्वरसमव्यथः शिरोहृद्गात्रोदरशूलादियुक्तः। भेदःविदारणेनेव व्यथा। आयामः आकर्षणेन व्यथा। पैत्तिकमाह
“पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽति-लोहितः”। द्रुवगतिः शीथ्रप्रसरणशीलः। अथ श्लै-ष्मिकमाह
“कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्”। सान्निपातिकमाह
“सन्निपातसमुत्थश्च सर्वरूपसमन्वितः”। वातपैत्तिकमाह
“वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्-भ्रमैः। अस्थिभेदोऽग्निमदनतमसारोचकैर्युतः। करोतिसर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्। यं यं देशं विसर्पश्चविसर्पति भवेत् स{??}। शीताङ्गारासितो वीतो रक्तो[Page4937-b+ 38] वा सूपचीयते। अग्निदग्ध इव स्फाटः शीघ्रगत्वाद् द्रु-तञ्च सः। मर्मानुसारी वीसर्पः स्याद्वातातिवन्तुस्ततः। व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत्। हिध्माञ्चस गतोऽवस्थामीदृशीं लभते नरः। कचिच्छर्माऽरति-ग्रस्तो भूमिशय्यासनादिषु। चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम्। दुःप्रबोधोऽश्रुते निद्रां सोऽग्निवीसर्पउच्यते”। स्फोटः सूपचीयत इत्यन्वयः।
“मर्मानु-सारी उदरहृदयानुसारी हरेत् विसर्प इत्यन्वयः हिघ्मांहिक्काम् ईरयेत् उपर्य्युपरि प्रेरयेत्। मनोदेहसमुद्भवांनिद्रां मरणरूपाम्। अश्नुते प्राप्नोति। वातश्चैष्मिकंग्रन्थिविसर्पमाह
“कफेन रुद्धः पवनो भित्त्वा तं बहुधाकफम्। रक्तञ्च वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम्। दूषयित्वा तु दीर्घार्युवृत्तस्थूलखरात्मनाम्। ग्रन्थीनांकुरुते मालां रक्तानां तीव्ररुग्ज्वराम्। श्वासकासाति-सारांश्च शोषहिक्कावमिभ्रमैः। मोहवैवर्ण्यमूर्च्छाङ्ग-मङ्काग्निसदनैर्युतः। इत्ययं ग्रन्थिवीसर्पो वातश्लेष्म-प्रकोपजः”। कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतु-दुष्टः। तेनायं वातश्लैष्मिकः। तं कफं बहुधा भित्त्वारक्तं वा दूषययित्वेत्यन्वयः। त्वगादिकमिति रक्तस्यविशेषणम्। अथ पित्तश्लैष्मिकं कर्दमाख्यं विसर्पमाह
“कफपित्तज्वरस्तम्मनिद्रातन्द्राशिरोरुजाः। अङ्गा-वसादविक्षेपप्रलापारोचकम्रमाः। मूर्च्छाग्नि हानिर्भेदो-ऽस्थ्नां पिपासेन्द्रियगोरवा। आगोपवेशनं लेपः स्रोत-साञ्च विसर्पति। प्रायेणामाशयं गृह्णन्नेकदेशं न चाति-रुक्। पोडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः। न्वि-ग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः। गम्भीर-पाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्य्यते। पङ्कत्वक्शीर्ण-मांसश्च स्पृष्टस्नायुसिरागणः। शवगन्धी च वीसर्पःकर्दमाख्यमुशन्ति तम्”। स च सर्पति एकदेशमित्यन्वयः। सीडकैः पीडाकारिभिः। अवकीर्णः व्याप्तः। असितःकणः। मेचकः रूक्षकृष्णः। प्राज्योष्मा प्रचुरोष्मा। स्पृष्टः क्लिन्नोऽवदीर्य्यते। स्पृष्टः सन्नार्द्रो भवति विदी-र्य्यते। पङ्कत्वक् कर्दमवर्णत्वक् यत्र सः। शीर्णमांसःगलितमासः। अत एव स्पृष्टस्नायुसिरागणः। सान्नि-पातिवकाह
“सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः”। अथ क्षतजं विसर्पमाह
“बाह्यहेतोः क्षतात् क्रुद्धः स-रक्तं पित्तमीरयन्। विसर्पं मारुतः कुर्य्यात् कुलात्यसदृशै-श्चितम्। स्फोटैः शोथज्वररुजादाहाद्यं श्यावशोणितम्”। [Page4938-a+ 38] वाह्यहेतोः शस्त्रषहारव्यालदन्तनखाद्यागन्तुहेतोः। श्या-वशोणितं कृष्णवर्णरक्तम्। उपद्रवानाह
“ज्वरातिसारौवमथुस्त्वग्मांसदरणक्लम्भः। अरोचकविपाकौ च विसर्पा-णामुपद्रवाः”। साध्यत्वादिकमाह
“सिद्ध्यन्ति वातकफ-पित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति। पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्तिहि सर्व एव”।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विसर्पः [visarpḥ], 1 Creeping about, gliding.
Moving to and fro.
Spread, circulation; किमु विषविसर्पः किमु मदः U.1.36.
An unexpected or unwished-for consequence of an act.
A sort of disease, dry spreading itch; लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ॥ -Comp. -घ्नम् wax.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विसर्प/ वि-सर्प m. creeping along or about , spreading , diffusion Uttarar. S3a1ntis3. ( v.l. )
विसर्प/ वि-सर्प m. a partic. disease (erysipelas or any similar spreading eruption) Sus3r.
विसर्प/ वि-सर्प m. (in dram. ) an action which leads to an unhappy or undesired issue( e.g. Ven2is. iii , 10 ) Sa1h.
