विसर्पः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विसर्पः, पुं, (वि + सृप + घञ् ।) रोगविशेषः । तत्पर्य्यायः । विसर्पिः २ सचिवामयः ३ । इति राजनिर्घण्टः ॥ तत्र विप्रकृष्टं निदानं संख्यां निरुक्तिञ्चाह । “लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्व्वतः परिसर्पणात् ॥” आदिशब्दाच्चरकोक्तहरितशाकशिण्डाकप्रभृ- तीनां ग्रहणम् ॥ * ॥ सप्तधात्वं विषृणोति । “पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्बन्द्वजास्त्रयः । वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः ॥ आग्नेयो वातपित्ताभ्यां ग्रन्थाख्यः कफवातजः । लेपो दशाङ्गः सघृतः प्रयोज्यो विसर्पकुष्ठज्वरशोथहारी ॥” नतं तगरम् । चन्दनमत्र रक्तं ग्राह्यम् । दशाङ्गो लेपः ॥ * ॥ “परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः । पद्मकोशीरमधुकं चन्दनैला विसर्पणे ॥ भूनिम्ववासा कटुका पटोल- फलत्रयं चन्दननिम्बसिद्धः । विसर्पदाहज्वरशोथकण्डूं विस्फोटतृष्णावमिहृत् कषायः ॥ कुष्ठानि यानि सर्पिंषि व्रणेषु विविधेषु च । विसर्पे तानि योज्यानि सेकालेपनभोजनैः ॥ * ॥ करञ्जसप्तच्छदलाङ्गलीक- स्नुह्यर्कदुग्धानलभृङ्गराजैः । तैलं निशामूत्रविषैर्विपक्वं विसर्पविस्फोटविचर्च्चिकाघ्नम् ॥ इति करञ्जादितैलम् ॥ * ॥ “कुष्ठामयस्फोटमसूरिकोक्त- चिकित्सयाप्याशु हरेद्बिसर्पान् । सर्व्वान् विकारान् परिशोध्य धीमान् व्रणं क्रमेणोपचरेद्यथोक्तम् ॥” इति विसर्पाधिकारः । * । इति भावप्रकाशः ॥ (वेगः । यथा, उत्तरचरिते । “प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ॥” नाट्यालङ्कारविशेषः । तल्लक्षणादिकं यथा, साहित्यदर्पणे । ६ । ४८५ । “विसर्पो यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥” यथा वेण्याम् । एकस्य तावत् पाकोऽयमि- त्यादि ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विसर्पः [visarpḥ], 1 Creeping about, gliding.
Moving to and fro.
Spread, circulation; किमु विषविसर्पः किमु मदः U.1.36.
An unexpected or unwished-for consequence of an act.
A sort of disease, dry spreading itch; लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ॥ -Comp. -घ्नम् wax.
