सामग्री पर जाएँ

विसूचिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसूचिका, स्त्री, (विसूची + स्वार्थे कन् ।) अजीर्णरोगविशेषः । इति भावप्रकाशः ॥ (अस्या विशेषविवृतिस्तु अजीर्णविसूचीशब्द- योर्द्रष्टव्या ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसूचिका¦ स्त्री विशिष्टा सूचीव इवार्थे कन्। रोगभेदेतस्य निरुक्तिर्यथा
“सूचीभिरिव गात्राणि तुदन् सन्ति-ष्ठतेऽनिलः। यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते। तस्य निदानमाह
“न तां परिमिताहारा लभन्ते वि-दितागमाः। मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः। विदितागमा ज्ञातायुर्वेदाः। तस्यालक्षणमाह
“मूर्च्छा-तिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः। वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्चभेदः”। उद्वेष्टनं हस्तपादयोः, शिरसोभेदः शिरःशूलम्। तस्या उपद्रवानाह
“निद्रानाशोऽरतिः कम्पोभूत्राघातो विसंज्ञता। अमी उपद्रवा घोरा विसूच्याःपञ्च दारुणाः। अमी उपद्रवा घोराः अमी निद्रानाशा-दय उपद्रवाः सर्वेषामेव रोगाणां घोराः भयङ्कराः। विसूच्याः पञ्चदारुणाः विसूच्यास्तु पञ्चामि यदि स्युस्तदादारुणाः प्राणभयङ्कराः। तस्या अरिष्टमाह
“यःश्यावदन्तोष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः। क्षामस्वरः सर्वविमुक्तसन्धिर्मासान्नरःसोऽपुनरागमाय”। सर्वविमुक्तसन्धिः सर्वे विमुक्ताः शिथिलीभूताः सन्धयोयस्य सः” भावप्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसूचिका¦ f. (-का)
1. Spasmodic cholera.
2. Symptom of a disease. E. वि, सूच् to apprise, ण्वुल् aff.; or विशिष्टा सूचीव इवार्थे कन् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसूचिका [visūcikā] विसूची [visūcī], विसूची Cholera; सूचीभिरिव गात्राणि तुदन् संतिष्ठते$निलः । यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते Bhāva P.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसूचिका/ वि-सूचिका w.r. for वि-ष्.

"https://sa.wiktionary.org/w/index.php?title=विसूचिका&oldid=276169" इत्यस्माद् प्रतिप्राप्तम्