सामग्री पर जाएँ

विसृष्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विसृष्टः, त्रि, (वि + सृज् + क्तः ।) निक्षिप्तः । इति जटाधरः ॥ (यथा, मृच्छकटिके । १ अङ्के । “उद्विग्नचक्रलकटाक्षविसृष्टदृष्टि- र्व्याधानुसारचकिता हरिणीव यासि ॥”) विशेषेण सृष्टश्च ॥ (व्यक्तः । यथा, भागवते । १ । १६ । २४ । “अन्तर्हितस्य स्मरती विसृष्टा कर्म्माणि निर्व्वाणविलम्बितानि ॥” प्रेषितः । यथा, रघुः । ५ । ३९ । “आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥” पुं, विसर्गः । विन्दुद्बयरूपः । यथा, कातन्त्रे । ८ । २ । “रसकारयोर्व्विसृष्टः ॥”)

"https://sa.wiktionary.org/w/index.php?title=विसृष्टः&oldid=167588" इत्यस्माद् प्रतिप्राप्तम्