विस्तरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विस्तरः, पुं, (वि + स्तॄ + “प्रथने वावशब्दे ।” ३ । ३ । ३३ । इति घञः प्रतिषेधे “ऋदोरप् ।” इत्यप् ।) शब्दस्य विस्तारः । इत्यमरः ॥ (यथा, शिशुपालवधे । २ । २४ । “सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥” वेदाङ्गम् । यथा, भागवते । ३ । ३ । २ । “सान्दीपनेः सकृत्प्रोक्तंब्रह्माधीत्य सविस्तरम् ॥”) विस्तारः । (यथा, गीतायाम् । १० । १९ । “प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥”) प्रणयः । इति मेदिनी ॥ पीठः । समूहः । इति शब्दरत्नावली ॥ (त्रि, बहुः । यथा, साहित्य- दर्पणे । ६ । ३१४ । “अपेक्षितं परित्यज्य नीरसं वस्तु विस्तरम् । यदा सन्दर्शयेच्छेशमामुखानन्तरं तदा ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विस्तरः [vistarḥ], 1 Extension, expansion.
Minute details, detailed description, minute particulars; संक्षिप्तस्याप्यतो$- स्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे Śi. 2.24; (विस्तरेण, विस्तरतः, विस्तरशः 'in detail, at length, fully, with minute details, with full particulars'; अङ्गुलिमुद्राधिगमं विस्तरेण श्रोतुमिच्छामि Mu.1; विस्तरेणात्मनो योगं विभूतिं च जनार्दन (भूयः कथय) Bg.1.18).
Prolixity, diffuseness; अलं विस्तरेण.
Abundance, quantity, multitude, number; उभे पुरवरे रम्ये विस्तरैरुपशोभिते Rām. 7.11.14.
A bed, layer.
A seat, stool.
Affectionate solicitation.
High degree, intensity.
(pl.) Great wealth, riches.
