विस्तीर्णः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विस्तीर्णः, त्रि, (वि + स्तॄ + क्तः । “रदाभ्या- मिति ।” ८ । २ । ४२ । इति नः ।) विपुलम् । विस्तृतम् । यथा, -- “विस्तीर्णे विकटं वड्रं विशालं विपुलं पृथु ।” इति जटाधरः ॥ (यथा, -- “पर्णानि स्वर्णवर्णानि विस्तीर्णाकर्णलोचने । तूर्णमानीयतां चूर्णं पूर्णचन्द्रनिभानने ॥” इत्युद्भटः ॥)
