विस्फुरितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विस्फुरितः, त्रि, (वि + स्फुर + क्तः ।) स्फूर्त्ति- विशिष्टः । चञ्चलः । यथा, -- “रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् । वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥” इति दशभुजादुर्गाध्यानैकदेशः ॥
