सामग्री पर जाएँ

विस्मितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विस्मितः, त्रि, (वि + स्मि + क्तः ।) विस्मयान्वितः । यथा, -- “महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः । संपरिष्वजत व्यक्तं ते प्रणेमुर्म्महेश्वरम् ॥ ततस्तदद्भुततमं दृष्ट्वा सर्व्वगणेश्वराः । सुविस्मितास्तदा सन्तः किमिदं चिन्तयन्निति ॥ विस्मितांस्तान् गणान् दृष्ट्वा शैलादिर्योगिनांवरः । प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपः ॥ विस्मितामी गणा देव सर्व्व एव महेश्वर । महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम् ॥” इति वामने ६४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=विस्मितः&oldid=167618" इत्यस्माद् प्रतिप्राप्तम्