सामग्री पर जाएँ

विस्रम्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

विस्रम्भः, पुं, (वि + स्रन्भ + घञ् ।) विश्वासः । (यथा, उत्तरचरिते । १ । “विस्रम्भादुरसि निपत्य लब्धनिद्राम् ॥”) प्रणयः । इत्यमरः ॥ प्रणयः परिचयः शृङ्गार- प्रार्थना वा । परिचयप्रार्यनयोः प्रणयः परिकीर्त्तितः ॥ इत्यमरमाला ॥ प्रणयः क्रीडापारतन्त्र्यम् । इति रमानाथः ॥” इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ६० । ७ । “विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव । विस्रम्भं लभतेऽभीता रामे विन्यस्तमानसा ॥”) केलिकलहः । वधः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=विस्रम्भः&oldid=167633" इत्यस्माद् प्रतिप्राप्तम्