विहीनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विहीनः, त्रि, (वि + हा + क्तः ।) विशेषेण हीनः । यथा, तन्त्रसारे । “षोढान्यासविहीनो यः प्रणमेद्देवि पार्व्वतीम् । सोऽचिरान्मृत्युमाप्नोतिं नरकञ्च प्रपद्यते ॥” त्यक्तः । यथा, -- “विहीनश्च धनैर्दारै पुत्त्रैरादाय मे धनम् । वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
