विह्वलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
विह्वलः, त्रि, (वि + ह्वल + अच् ।) भयादिना- भिभूतः । स्वाङ्गधारणाशक्तः । तत्पर्य्यायः । विक्लवः २ । इत्यमरः ॥ (यथा, रघुः । ८ । ३७ । “क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला । निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥”) विलीनम् । इति हेमचन्द्रः ॥
