वीजपूर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीजपूरः, पुं, (वीजानां पूरः समूहो यत्र ।) फल- पूरः । इत्यमरः ॥ टावा लेवु इति वङ्गभाषा ॥ विजौरा इति हिन्दी भाषा ॥ तत्पर्य्यायः । वीजपूर्णः २ पूर्णवीजः ३ सुकेशरः ४ वीजकः ५ केशराम्लः ६ मातुलुङ्गः ७ सुपूरकः ८ रुचकः ९ वीजफलकः १० जन्तुघ्नः ११ दन्तुरच्छदः १२ पूरकः १३ रोचनफलः १४ । अस्य फलगुणाः । अम्लत्वम् । कटुत्वम् । उष्णत्वम् । श्वासकास- पवनशमनत्वम् । कण्ठशोधनकरत्वम् । लघु- त्वम् । हृद्यत्वम् । दीपनत्वम् । रुचिकारि- त्वम् । पावनत्वम् । आध्मानगुल्महृद्रोगप्लीहो- दावर्त्तनाशित्वम् । विबन्धे हिक्कायां शूले छर्द्द्याञ्च शस्यत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “वीजपूरफलं स्वादु रसेऽम्लं दीपनं लघु । रक्तपित्तहरं कण्ठजिह्वाहृदयशोधकम् । श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम् ॥” तद्भेदमधुकर्क्कटी । यथा, -- “वीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्क्कटी । मधुकर्क्कटिका स्वाद्वी रोचनी शीतला गुरुः । रक्तपित्तक्षयश्वासकाशहिक्काभ्रमापहा ॥” इति भावप्रकाशः ॥ (यथा, महाभारते । ३ । १५८ । ४२ । “मुञ्जातकांस्तथा जीवान् दाडिमान् वीज- पूरकान् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीजपूर¦ पु॰ पूर्य्यते पूर + घञ्
३ त॰। (टावा लेवु) जम्बोरभेदे वाजपूर्णोऽप्यत्र।
“वीजपूरफलं स्वादु रमेऽम्लं दोपनं लघु। रक्तपित्त-हरं कण्ठजिह्वाहृदयशोधकम्। श्वासकासारुचि-हरं हृद्यं तृष्णाहरं स्मृतम्”। तद्भेदमधुककंटी गुणायथा
“वीजपूरोऽपरः प्रोक्तामधुरा मधुमर्कटी। मधु-ककीटका स्वाद्वी रोचनी शीतला गुरुः। रक्तपित्तक्षय-श्वासकासहिक्काभ्रमापहा” भावप्र॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीजपूर¦ m. (-रः) Common citron or a variety, (Citrus medica.) E. वीज a seed, and पूर what is full of.
