वीजोप्तिचक्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीजोप्तिचक्रम्, क्ली, (वीजानामुप्तये शुभाशुभसूचकं चक्रम् ।) वीजवपनजन्यशुभाशुभज्ञानार्थसर्पा- कारचक्रम् । यथा, -- “सूर्य्यभादुरगः स्थाप्यस्त्रिनाड्ये कान्तरक्रमात् । मुखे त्रीणि गले त्रीणि भानि द्बादश तूदरे ॥ पुच्छे चतुर्व्वहिः पञ्च दिनभाच्च फलं वदेत् । वदने चोचकं विद्यात् गलकेऽङ्गारकस्तथा ॥ उदरे धान्यवृद्धिः स्यात् पुच्छे धान्यक्षयो भवेत् । ईतिरोगभयं राज्ये चक्रे वीजोप्तिसम्भवे ॥” सूर्य्यभात् सूर्य्यमुज्यमाननक्षत्रात् । त्रिनाड्ये- कान्तरक्रमादिति यद्यश्विन्यां रविस्तदा तामा- रभ्य गणयेत् । त्रिनाडीषु अश्विनीभरणी- कृत्तिकासु दत्त्वा रोहिणी बहिः कार्य्या मृग- शिरस आर्द्रापुनर्व्वसुनाडीषु दत्त्वा पुष्यो बहिः कार्य्यः । एवं क्रमेणान्या लेख्याः । चोचकं शस्यशून्यताम् । ईतयः । “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः ॥” इति ज्योतिस्तत्त्वम् ॥
