वीतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीतम्, क्ली, (वेति स्म । वी + क्तः । अथवा अजति स्म । अज् + गत्यर्थेति क्तः ।) असारहस्त्यश्वम् । युद्धाक्षममित्यर्थः । इत्यमरः ॥ अङ्कुशकर्म्म । इति मेदिनी । ते, ५८ ॥ (यथा, माघे । ५ । ४७ । “निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्ज्जनाभिः ॥” सांख्योक्तानुमानविशेषः । यथा, सांख्यतत्त्व- कौमुद्याम् । ५ । “प्रथमं तावद्द्विविधं वीतमवीतञ्च । अन्वय- मुखेन प्रवर्त्तमानं विधायकं वीतम् ॥” अस्य विशेषविवरणं तत्रैव द्रष्टव्यम् ॥ त्रि । कमनीयः । यथा, ऋग्वेदे । ४ । ७ । ६ । “तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ॥” “वीतं कान्तम् ।” इति तद्भाष्ये सायणः ॥)
