वीतशोकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वीतशोकः पुं, अशोकवृक्षः । इति शब्दमाला ॥ (वीतः शोको यस्मात् । अशोकाष्टम्यां तत्पानेन शोकनाशत्वात्तस्य तथात्वम् । तथा च तिथितत्त्वे । “त्वामशोक हराभीष्ट मधुमाससमुद्भव । पिवामि शोकसन्तप्तो मामशोकं सदा कुरु ॥” विगतः शोको यस्य ।) विगतशोके, त्रि । (यथा, महाभारते । ३ । १७३ । १० । “सर्व्वकामगुणोपेतं वीतशोकमनामयम् ॥”)
