वीथि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथिः, स्त्री, (विथ्यतेऽनया । विथ + इगुपधात् किदितीन् । बाहुलकाद्दीर्घः ।) वीथी । यथा, -- “पङ्क्तिवर्त्मगृहाङ्गेषु वीथिर्वीथी च वीथिका ।” इति रत्नकोषः ॥ (यथा, राजतरङ्गिण्याम् । ३ । ३६२ । “तद्विना नगरं कुत्र पवित्राः सुलभा भुवि । मुभगाः सिन्धुसम्भेदाः क्रीडावसथवीथिषु ॥” वर्त्मार्थे यथा, राजतरङ्गिण्याम् । ३ । ३०७ । “चिरं खलु खिलीभूताः कृतज्ञत्वस्य वीथयः । धीर त्वयैव न त्वासु सञ्चारो यदि दर्श्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथि स्त्री।

पङ्क्तिः

समानार्थक:वीथि,आलि,आवलि,पङ्क्ति,श्रेणी,पालि,आली

2।4।4।1।1

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथि(थी)¦ स्त्री विथ--इन् वा ङीप्।

१ पङक्तौ

२ श्नेणौ

३ गृहाङ्गे

४ वर्त्मनि

५ दृश्यकाव्यभेदे च मेदि॰। तल्लक्षणादि सा॰ द॰

६ प॰ उक्तं यथा
“वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते। आकाश-भाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः। सूचयेद् भूरि-शृङ्गारं किञ्चिदन्यान् रसानपि। मुखनिर्वहणे सन्धीअर्थप्रकृतयोऽखिलाः”। कश्चिदित्युत्तमो मध्यमोऽधमोवा। शृङ्गारबहुलत्वाच्चास्याः कैशिकीवृत्तिवहुलत्वम्।
“अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः। उद्घात्य-कावलगिते प्रपञ्चस्त्रिगतं छलम्। वाक्केल्यधिवले गण्ड-मवस्यन्दितनालिके। असत्प्रलापव्याहारमृदवानि चतानि तु”। तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावेसोदाहरणं लक्षिते
“मिथो वाक्यसमुद्भूतः प्रपञ्चो हास्य-कृन्मतः”। यथा विक्रमोर्वश्याम्। वडभीस्थविदूषक-चेट्योरन्योन्यवचनम्
“त्रिग{??}स्यादनेकार्थयोजनं श्रु-तिसाम्यतः”। यथा तत्रैव राजा
“सर्वक्षितिभृतां नाथ!दृष्टा सर्वाङ्गसुन्दरी। रामा रम्ये वनान्तेऽस्मिन् मयाविरहिता त्वया”। नेपथ्ये तत्रैव प्रतिशब्दः। राजाकथं दृष्टेत्याह। अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम्
“नटादित्रितयविषयमेवेदमिति” कश्चित्
“प्रियाभैरप्रियै-र्वाक्यैर्विलोभ्य छलनाच्छलम्” यथा वेण्यां
“भीमार्जुनौ”
“कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानीराजा दुःशासनादेगु रुरनुजशतस्याङ्गराजस्य मित्रम्। कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाःक्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुमभ्यागतौस्वः”
“अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिस्य कम्य-चित्। उदीर्य्यते यद्वचनं वञ्चना हास्यरोषकृत्”।
“वाक्के-लिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तिती भवेत्”। द्वित्रीत्युप-लक्षणं यथा
“मिक्षो! मांसनिषेवणं प्रकुरुषे किं तेनमद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्ग-नाभिः सह। वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेनचौर्य्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्त[Page4943-a+ 38] कान्या गतिः”।
“केचित् प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निर्वृत्तिर्वाक्केलिरित्याहुः”। अन्ये च
“अनेकस्वप्रश्नस्यैकमुतरम्”।
“अन्यान्यवाक्याधिक्योक्तिः स्पर्द्धया-धिवलं मतम्”। यथा मम प्रभावत्यां वज्रनाभः
“अस्य यक्षः क्षणेनैव निर्मथ्य गदयानया। लीलयोन्मू-लयिष्यामि भुवतद्वयभद्य वः”। प्रद्युम्नः। अरेरे असु-रापसद! अलममुना बहुपलापेन मम खलु
“अद्यप्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूह-पातैः। आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिःक्षणेन पिशिताशनलोभनीया”।
“गण्डं प्रस्तुतसम्बन्धिभिन्नार्थं सत्वरं वचः”। यथा वेण्यां
“राजा” अध्या-सितुं तव चिराज्जघनस्थलस्य पर्य्याप्तमेव करभोरु!ममोरुयुग्मम्”। अनन्तरं प्रविश्य कञ्चुकी।
“देव भग्नंभग्नमित्यादि”। अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थेसम्बन्धे सम्बद्धम्।
“व्याख्यानं खरसोक्तस्यान्यथावस्य-न्दितं भवेत्”। यथा छलितरामे सीता। जाद काल्लंक्खु अओञ्झाए गन्तव्वं तहिं सो राआ विणएणपणयिदव्यो। लवः। अथ किमावाभ्यां राजोपजीविभ्यांभवितव्यं। सीता। जाद सो तुह्माणं पिदा। लवः। किमावयोः षुपतिः पिता। सीता। साशङ्कं मा अ-ण्णधा संकधं ण क्खु तुह्माणं सअलाए ज्जेव पुहवीए त्ति”।
“प्रहेलिकैव हास्येन युक्ता भवति नालिका”। संवरणकार्य्युत्तरं प्रहेलिका। यथा रत्नावल्यां
“सुस-ङ्गता
“सहि जस्म कदे तुमं। णंचित्तफलअस्म”। अत्र त्वं रज्ञः कृते आगतेत्यर्थः संवृतः।
“असत्प्रलापोयद्वाक्यमसाबद्धं तथोत्तरम्। अगृह्वतोऽपि मूर्खस्य पुरोयच्च हितं वचः”। तत्राद्यं यथा मम प्रभावत्याम्प्रद्युम्नः सहकारवल्लीमवलीक्य सानन्दम्” अहोसा कथमिहैव।
“अलिकुलमञ्जुलकेशी परिमलबहुलारसावहा तन्वी। किशलयपेशलपाणिः कोकिलकलभाविणी प्रियतमा मे”। एवमसम्बद्धोत्तरेऽपि। तृतीयंवता{??} दुर्य्योधनं प्रति गान्धारीवाक्यम्।
“व्या-हारो यत्परस्यार्थे हास्यलोभकरं वधः”। यथा माल-विकाग्निमित्रे। लास्यप्रयोगावसाने मालविका निर्गन्तु-मिच्छति।
“विदूषकः। मा दाव उपदेशमुद्धा गमि-स्पसि इत्युपक्रमे गणदासः। विदूषकं प्रति आर्य्य!उच्यतां यस्त्वया क्रमभेदो लचितः। विदूषकः। प{??} पकारनोतिगा इमार लाङ्घदा। मालविका[Page4943-b+ 38]
“स्ययते” (तत्र इति पाठान्तरम्) इत्यादिना नायकस्थविशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकादिणा वचसाव्याहारः।
“दोषा गुणा गुणा दोषा यत्र स्युर्मृदवंहि तत्”। क्रमेण यथा
“प्रियजीवितता क्रौर्य्यंनिःस्नेहत्वं कृतघ्नता। भूयस्तद्दर्शनादेव ममैते गुणतांगता। तस्यास्तद्रूपसौन्दर्य्यं भूषितं यौवनश्रिया। सुखैकतायनं जातं दुःखायैव ममाधुना”। इति चा-ङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यंविधेयानि। विस्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानिनानारसानाञ्चात्र मालारूपतया स्थितत्वाद्वीथीयम्” सा॰ द॰

६ प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथि¦ f. (-थिः or थी)
1. A road.
2. A row, a line.
3. A terrace in front of a house.
4. A stall, a shop.
5. A sort of drama, in one act, and by one or by two performers, the dramatic narration of an amatory story or intrigue. E. विथ् to ask or beg, aff. इन्, and the vowel made long; also ङीष् optionally added, with कन् aff., fem. form, वीथिका |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथिः [vīthiḥ] थी [thī], थी f. [विथ्-इन् वा ङीप्]

A road, way; पीपतिषतां विलङ्घ्य वीथीम् Ki.7.17; यदि रोहिण्याः शकटं भिनत्ति रविनन्दनो गगनवीथ्याम् Pt.1.211.

A row, line.

A market, stall, shop in a market; घनवीथिवीथिमवतीर्णवतः Śi.9.32.

A terrace in front of a house.

A variety of drama; it is thus defined in S. D.: वीध्यामेवो भवेदङ्कः कश्चिदेको$त्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः । सूचयेद् भूरिशृङ्गारं किंचितन्यान् रसानपि । मुखनिर्वहणे संधी अर्थप्रकृतयो$- खिलाः । 52.

A race-course; a training ground for horses; सिद्धं मुखे नवसु वीथिषु कश्चिदश्वम् Śi.5.6. (com. वीथयो नवाश्वानां सर्वत्र धारादाढ्यार्थाः परिमिताः प्रचारदेशाः).

A particular division of the planetary sphere.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथि f. or वीथी(perhaps fr. वी; See. 1. वीत)a row , line Ka1v. Ra1jat.

वीथि f. a road , way , street MBh. Ka1v. etc.

वीथि f. a race-course S3is3. v , 60

वीथि f. a market , stall , shop ib. ix. 32

वीथि f. a row of pictures , -ppictures-gallery Uttarar. ( v.l. वीथिका)

वीथि f. a partic. division of the planetary sphere (comprising 3 asterisms) VarBr2S.

वीथि f. a terrace in front of a house L.

वीथि f. a sort of drama (having an amatory intrigue for its plot and said to be in one act and performed by one or two players) Bhar. Das3ar. etc.

"https://sa.wiktionary.org/w/index.php?title=वीथि&oldid=278124" इत्यस्माद् प्रतिप्राप्तम्